पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०४

पुटमेतत् सुपुष्टितम्
९३०
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

२०८३ । अनुगादिनष्ठक् । (५-४-१३)

अनुगादतीत्यनुगादी । स एव आनुगादिकः ।

२०८४ । विसारिणो मत्स्ये । (५-४-१६)

अण्स्यात् । वैसारिणः । 'मत्स्ये' इति किम् । विसारी देवदत्तः ।

२०८५ । सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ।(५-४-१७)

अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः सङ्ख्याशब्दात्स्वार्थे कृत्वसुच्स्यात् । पञ्चकृत्वो भुङ्क्ते । 'सङ्ख्यायाः' किम् । भूरिवारान्भुङ्क्ते ।

२०८६ । द्वित्रिचतुर्भ्यः सुच् । (५-४-१८)

कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः 'रात्सस्य' (सू २८०) । चतुः ।


इति ।। स्थानं पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोः स्थानमिति ।। गवां निवास इत्यर्थः । अत्र तुल्यत्वाप्रतीतेर्नच्छ: । 'किमेत्तिङव्यय' इत्युत्तरसूत्रम्प्रसङ्गात्पूर्वमेव व्याख्यातम् । 'अमु च च्छन्दसि' इति तु वैदिकप्रक्रियायां व्याख्यास्यते । अनुगादिनष्ठक् ।। स्वार्थे इति शेषः ‘आमादयःप्राङ्मयटः' इत्युक्तेः ठगादयो नित्या एव प्रत्ययाः । अनुगादीति । 'सुप्यजातौ' इति णिनिः । प्रकृतिदर्शनमिदम् । ठकोनित्यत्वात्स एवेत्यस्वपदविग्रहपददर्शनम् । अनुगादिक इति ॥ 'नस्तद्धिते' इति टिलोपः । इह क्रमेण च 'स्त्रियाम्' इति 'अणिनुणः’ इति च सूत्रद्वयम्पठितं कृदधिकारे व्याख्यास्यते । विसारिणो मत्स्ये ॥ 'अणिनुणः’ इति पूर्वसूत्रात् अणित्यनुवर्तते । तदाह । अण् स्यादिति ।। मत्स्ये विद्यमानात् विसारिन्शब्दात् स्वार्थे अण् स्यादित्यर्थः । वैसारिणः इति ॥ 'इनण्यनपत्ये' इति प्रकृतिभावाट्टिलोपो न । सङ्ख्यायाः ॥ अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्येत, तदा चतुर्वारम्पाकप्रवृत्तौ द्विः पचतीति स्यादित्यत आह । अभ्यावृत्तिर्जन्मेति ॥ उपसर्गवशात् 'वृतु वर्तने' इति धातोरुत्पत्तौ वृत्तिरिति भावः । कृत्वसुचि चकार इत् । उकार उच्चारणार्थः । 'तद्वितश्चासर्वविभक्तिः' इत्यत्र तसिलादिषु परिग्रहणात् कृत्वोऽर्थानामव्ययत्वम् । पञ्चकृत्वो भुङ्क्ते इति ।। पञ्चत्वसङ्ख्याकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । सङ्ख्यायाः किमिति ।। गणने वृत्तिः सङ्ख्याशब्दानामेवेति प्रश्नः । भूरिवारान् भुङ्क्ते इति ॥ भूरिशब्दो बहुशब्दपर्यायः । वारशब्दस्तु वस्तुतः समभिव्याहृतक्रियापर्याप्ते काले वर्तते । ‘कालाध्वनोरत्यन्तसंयोगे द्वितीया' इति द्वितीया । बहुकालेषु कार्त्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः । भोजनबहुत्वं त्वर्थाद्गम्यते । तथा च वारशब्दोऽयं न गणनवाची । भूरिशब्दोऽपि न सङ्ख्याशब्देन गृह्यते । 'बहुगणवतुडति सङ्ख्या' इत्यत्र बहुग्रहणे तत्पर्यायस्य अङ्ख्यात्वबोधनात् । अतोऽत्र न कृत्वसुच् । द्वित्रिचतुर्भ्यः ॥ क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत् । उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति ॥ भुङ्क्ते इत्यनुषज्यते । रादिति ॥ चतुर्शब्दात् सुचि चतुरस् इति स्थिते ‘रात्सस्य’