पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०५

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९३१
बालमनोरमा ।

२०८७ । एकस्य सकृच्च । (५-४-१९)

सकृदित्यादेशः स्यात्, चात्सुच् । सकृद्भुङ्क्ते । 'संयोगान्तस्य-' (सू ५४) इति सुचो लोपः । न तु ‘हल्ङ्याप्–’ (सू २५२) इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ।

२०८८ । विभाषा बहोर्धाऽविप्रकृष्टकाले । (५-४-२०)

अविप्रकृष्ट आसन्नः । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते । 'आसन्नकाले' किम् । बहुकृत्वो मासस्य भुङ्क्ते ।

२०८९ । तत्प्रकृतवचने मयट् । (५-४-२१)

प्राचुर्येण प्रस्तुतं प्रकृतं, तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीयेऽन्नमयो यज्ञः । अपूपमयं पर्व ।


इति सकारस्य लोपे चतुरिति रूपमित्यर्थः । अत्र भुङ्क्ते इत्यनुषज्यते । एकस्य सकृच्च ॥ शेषपूरणेन सूत्रं व्याचष्टे । सकृदित्यादेशः स्यादिति ।। सकृद्भुङ्क्ते इति।। एकशब्दात् सुच्, प्रकृतेः सकृदित्यादेशश्च । अत्र एकशब्दः क्रियाविशेषणम् । एकत्वविशिष्टा भुजिक्रियेत्यर्थः । स्वादु पचति इत्यादिवदेकम्भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । एको भुङ्क्ते इत्यत्र तु नायं विधिः प्रवर्तते । क्रियाग्रहणमनुवर्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननु ‘संयोगान्तस्य’ इति सुचो लोप इत्यनुपपन्नम् । ‘हल्ञ्याब्भ्यः’ इत्येव हि सुलोपोऽत्र युक्तः। तस्मिन् कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्यासिद्धत्वादित्यत आह । नतु हल्ङ्यापबितीति ॥ सिच इवेति ॥ अभैत्सीदित्यत्र सिचो लोपनिवृत्तये हल्ङ्याबित्यत्र सिग्रहणेन सिचो ग्रहणं, तत्साहचर्यात् सुग्रहणेनाऽपि सुजयन्नगृह्यत इति भावः । विभाषा बहोर्धाऽविप्रकृष्टकाले ।। अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दात् धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति ॥ दिवसे प्रातः सङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । 'कृत्वोऽर्थेप्रयोगे कालेऽधिकरणे' इति दिवसात्षष्ठीति हरदत्तः। शेषत्वविवक्षायां षष्ठी इति तु नवीनाः । तत्प्रकृतवचने ॥ तदिति प्रथमान्तनिर्देशः । प्राचुर्येणेति ॥ बहुळतया उपस्थित प्रकृतशब्देन विवक्षितमित्यर्थः । उपसर्गबलादिति भावः । प्रतिपादनमिति ॥ बोधनमित्यर्थः । भावे इति ॥ तथाच प्रकृतस्य बोधने सतीत्यर्थः । प्राचुर्यविशेषणकवस्तुप्रवृत्तेः प्रथमान्तात्स्वार्थे मयडिति फलति । अत्र प्राचुर्यविशिष्टं वस्तु प्रकृतेरर्थः । प्रत्ययस्तु तद्द्योतकः। अधिकरणे वेति ।। तथाच प्राचुर्यविशेषणकं यद्वस्तु यस्मिन्नुच्यते तदधिकरणे वाच्ये तादृशवस्तुवृत्तेः शब्दात् मयडिति फलितम् । अत्र पक्षे प्राचुर्यविशिष्टमुच्यमानं वस्तु प्रकृत्यर्थः । तदधिकरणं प्रत्ययार्थः । तन्त्रेणार्थद्वये सूत्रतात्पर्ये, व्याख्यानात् । यद्यप्याद्यपक्षे स्वार्थिकप्रकरणपाठः समञ्जसः, नतु द्वितीयपक्षे । तथापि ‘अथ स्वार्थिकाः' इति मूलम्प्रायिकाभिप्रायमिति न दोषः । आद्ये इति ॥ भावल्युट्पक्षे इत्यर्थः । प्रकृतमन्नमन्नमयमिति ॥