१८४० । पन्थो ण नित्यम् । (५-१-७६)
पन्थानं नित्यं गच्छति । पान्थः - पान्था ।
१७४१ । उत्तरपथेनाहृतं च । (५-१-७७)
उत्तरपथेनाहृतमौत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः । 'आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसङ्ख्यानम्’ (वा ३०५७) । वारिपथिकम् ।
१७४२ । कालात् । (५-१-७८)
व्युष्टादिभ्योऽण्’ (सू १७६१) इत्यतः प्रागधिकारोऽयम् ।
१७४३ । तेन निर्वृत्तम् । (५-१-७९)
अह्ना निर्वृत्तम् आह्निकम् ।
१७४४ । तमधीष्टो भृतो भूतो भावी । (५-१-८०)
अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतकालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतः मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ।
१७४५ । मासाद्वयसि यत्खञौ । (५-१-८१)
मासं भूतो मास्य:-मासीनः ।
नित्यम् ॥ पथ इत्यनुवर्तते गच्छतीति च । नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्टमेव । नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम् । द्वितीयान्तात् पथिन्शब्दात् नित्यङ्गच्छतीत्यर्थे णप्रत्ययः स्यात्प्रकृतेः पन्थादेशश्चेत्यर्थः । भाष्ये तु नित्यग्रहणम्प्रत्याख्यातम् । उत्तरपथेनाहृतञ्च ॥
उत्तरपथशब्दात् तृतीयान्तात् आहृतमित्यर्थे गच्छतीत्यर्थे च ठञ् स्यादित्यर्थः ।
वारिजङ्गलेति ॥ वारि, जङ्गल, स्थल, कान्तार, एतत्पूर्वात् पथिन्शब्दात् तृतीयान्तात् आहृतमिति गच्छतीति चार्थे ठन्नित्यर्थः । वारिपथेन गच्छति आहृतं वेत्यर्थः । जाङ्गलपथिकः स्थालपथिकः, कान्तारपथिकः । कालात् ॥ इत्यतः प्रागिति ॥ व्याख्यानादिति भावः । तेन निर्वृत्तम् ॥ तृतीयान्तानिर्वृत्तमित्यर्थे ठञ् स्यादित्यर्थ । आह्निकमिति ॥ “अहृष्टखोरेव' इति नियमान्न टिलोपः । तमधीष्टो॥ द्वितीयान्तात् अधीष्टादिष्वर्थेषु ठञ् स्यादित्यर्थः । व्यापारित इति ॥ प्रेरित इत्यर्थः । तादृश एवेति ॥ स्वसत्तया व्याप्यमान इत्यर्थः । मासमधीष्ट इत्यादौ 'कालाध्वनोः' इति द्वितीया । मासाद्वयसि॥ अत्र भूत इत्येवानुवर्तते ।