पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/११२

पुटमेतत् सुपुष्टितम्
९३८
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

२११३ । अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः । (५-४-४६ )

अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारि त्रेणाऽतिगृह्यते । चरित्रतोऽतिगृह्यते । चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरि' इति किम् । देवदत्तेन क्षिप्तः ।

२११४ । हीयमानपापयोगाच्च । (५-४-४७)

हीयमानपापयुक्ताद्कर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेप तु पूर्वेण सिद्धम् । “ अकर्तरि इति किम् । देवदत्तेन हीयते ।

२११५ । षष्ठया व्याश्रये । (५-४-४८)

षष्ठयन्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवाः अर्जुनतोऽभवन् । दैत्याः कर्णतोऽभवन् । अर्जुनस्य कर्णस्य पक्षे इत्यर्थः । “ व्याश्रये' किम् । वृक्षस्य शाखा |

२११६ । रोगाच्चापनयने । (५-४-४९)

रोगवाचिनः षष्ठ-यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः । “अपनयने' किम् । प्रवाहिकायाः प्रकोपनं करोति ।


छेदः । हीयते इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य हीयेत्यनुकरणम् । हीयरुहोः सम्बन्धि यन्न भवति तस्मिन्नपादाने इत्यर्थः । अतिग्रहाव्यथन । अतिक्रम्य ग्रह इति ॥ लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः । चारित्रेणेति ॥ चरित्रमेव चारित्रम्, तेन हेतुना इतरविलक्षणत्वेन दृश्यते इत्यर्थः । फलितमाह । अन्यानतिक्रम्य वर्तते इति ॥ “व्यथ भयसञ्चलनयोः' इति चलनार्थात् ल्युटि व्यथनशब्दः । तदाह । अव्यथनमचलनमिति ॥ क्षेपे इति ।। उदाह्रियते इति शेषः । क्षेपो निन्दा । हीय मानपापयोगाच्च ॥ हीयमानेति ॥ हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह । क्षेपस्याविवक्षायामिति ॥ तत्वकथने इत्यर्थः । षष्ठया व्याश्रये ॥ नानापक्षसमाश्रयणे इति ॥ सर्वसाधारण्यं विहाय एक पक्षाश्रय इति यावत् । पक्षः स्वीयत्वेन परिग्रहः । देवा अर्जुनतोऽभवन्निति ॥ अर्जुनस्य पक्षे देवा आसन्नित्यर्थः । दैत्याः कर्णतोऽभवन्निति ॥ असुरा कर्णस्य पक्षे आसन्नित्यर्थः । रोगाञ्च ॥ रोगस्य प्रतीकारः चिकित्सा । प्रवाहिकात इति ॥ विषूचिकाप्रतीकारमित्यर्थः।