पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/११६

पुटमेतत् सुपुष्टितम्
९४२
[स्वार्थिक
सिद्धान्तकौमुदीसहिता

अग्नी भवति । जलसात्सम्पद्यते जली भवति लवणम् । 'एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथाभावः कार्त्स्न्यम् ' । “बहूनां व्यक्तीनां किञ्चिदवयवावच्छेदेनान्यथात्वं त्वभिविधिः' ।

२१२५ । तदधीनवचने । (५-४-५४)

सातिः स्यात्कृभ्वस्तिभि: सम्पदा च योगे । राजसात्करोति । राजसात्सम्पद्यते । राजाधीनमित्यर्थः ।

२१२६ । देये त्रा च । (५-४-५५)

तद्धीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति । विप्रत्रा करोति । विप्रत्रा सम्पद्यते । पक्षे विप्रसात्करोति । “देये किम् । राजसाद्भवति राष्ट्रम्

२१२७ । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् । (५-४-५६)

एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा बहुलोक्त्तेरन्यत्रापि । बहुत्रा जीवतो मन:

२१२८ । अव्यक्तानुकरणाद्व्यजवरार्धादनितौ डाच् । (५-४-५७)

‘द्व्यच्’ अवरं न्यूनम्, न तु ततो न्यूनम् अनेकाच्’ इति यावत्तादृशमर्धं


सम्पदा योगे उदाहरति । अग्निसात्सम्पद्यते इति ॥ कृभ्वस्तियोगे उदाहरति । अग्निसाद्भवति शास्त्रमिति ॥ अग्निसात्करोति अग्निसात्स्यादित्यप्युदाहार्यम् । कार्त्स्न्याभिविध्योर्विशेषमाह । एकस्याः व्यक्तेरित्यादिना ॥ तदधीनवचने ॥ शेषपूरणेन सूत्रं व्याचष्टे। सातिः स्यादित्यादिना ॥ “अभूततद्भावे' इति निवृत्तमिति भावः । देये त्रा च ॥ तदधीनवचन इत्येवानुवर्तते । कृभ्वादियोगे इति ॥ कृभ्वस्तिभिः सम्पदा च योगे इत्यर्थः । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ एभ्य इति ॥ देव, मनुष्य, पुरुष, पुरु, मर्त्य, इत्येतेभ्यः इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् । सातीति कृभ्वस्तियोगे इत्यपि निवृत्तम् । देवत्रा वन्दे रमे वेति ॥ देवान् वन्दे, देवेषु रमे वेत्यर्थः । मनुष्यत्रा, पुरुषत्रा । पुरुशब्दो बहुळपर्यायः । पुरुत्रा, मर्त्यत्रा । अन्यत्रापीति ॥ देवादिभ्यो अन्यत्रापीत्यर्थः । बहुत्रा जीवतो मनः इति ॥ जीवतो जन्तोर्मनः बहुषु विषयेषु गच्छति बहून् व्याप्तोतीत्यर्थः । अव्यक्तानुकरणात् ॥ यत्र ध्वनौ अकारादयो वर्णविशेषाः न व्यज्यन्ते सः अव्यक्तः ध्वनिः । तस्यानुकरणम् अव्यक्तानुकरणम् । द्यजवरार्धशब्दं व्याचष्टे । द्व्यजिति ॥ द्वावचौ यस्येति विग्रहः । अवरशब्दं व्याचष्टे । न्यूनमिति ॥ द्व्यजेव अवरं न्यूनसङ्ख्या काच्कमिति सामानाधिकरण्येनान्वयः । न तु ततो न्यूनमिति ॥ एकाच्कमित्यर्थः ।