पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२

पुटमेतत् सुपुष्टितम्
८३८
[कालाधिकार
सिद्धान्तकौमुदीसहिता

१७४६ । द्विगोर्यप् । (५-१-८२)

मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ।

१७४७ । षण्मासाण्ण्यच्च । (५-१-८३)

वयसि' इत्येव । यबप्यनुवर्तते, चाट्ठञ् । षण्मास्यः—षाण्मास्यः—षाण्मासिकः ।

१७४८ । अवयसि ठंश्च । (५-१-८४)

चाण्ण्यत् । षण्मासिको व्याधिः -षाण्मास्यः ।

१७४९ । समायाः खः । (५-१-८५)

समामधीष्टो भृतो भूतो भावी वा समीनः ।

१७५० । द्विगोर्वा । (५-१-८६)

’समायाः ख:’ इत्येव । “तेन परिजय्य-' (सू १७५७) इत्यतः प्राङ्निर्वृत्तादिषु पञ्चस्वर्थेषु प्रत्ययाः । द्विसमीन:-द्वैसमिकः ।

१७५१ । रात्र्यहःसंवत्सराच्च । (५-१-८७)

’द्विगोः' इत्येव । द्विरात्रीण:-द्वैरात्रिकः । व्द्यहीनः-द्वैयह्निकः समा सान्तविधेरनित्यत्वान्न टच् । द्विसंवत्सरीणः ।


व्याख्यानात् । मासशब्दात् द्वितीयान्तात् भूत इत्यर्थे यत्खञौ स्तः । वयास गम्ये इत्यर्थः । द्विगोर्यप् । अनुवर्तते इति ॥ मासान्तादृ्विगोर्भूत इत्यर्थे यप् स्याद्वयसि गम्ये इत्यर्थः। षण्मासाण्ण्यच्च । वयसीत्येवेति ॥ षण्मासशब्दात् भूत इत्यर्थे ण्यच्च स्याद्वयसि गम्ये इत्यर्थः । अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यद्यपावेव स्याताम्, नतु ठञपि । इष्यते तु ठञपि । तत्राह । यबप्यनुवर्तते इति ॥ स्वरितत्वादिति भावः । तर्हि चकारः किमर्थ इत्यत आह । चाट्ठञिति ॥ तथाच ण्यत् यप् ठञिति त्रयः प्रत्ययाः फलिताः । अवयसि ठंश्च ॥ षण्मासशब्दात् द्वितीयान्तात् भूते अवयसि ठन् च स्यादित्यर्थः । समायाः खः ॥ मण्डूकप्लुत्या ‘तमधीष्टो भृतो भूतो भावी' इति कृत्स्नमेव सूत्रमनुवर्तते । समाशब्दाद्द्वितीयान्तात् अधीष्टादिष्वर्थेषु खः स्यादित्यर्थः । द्विगोर्वा ॥ समायाः ख इत्येवेति ॥ तथाच समान्तात् द्विगोरर्द्वितीयान्तात् खो वा स्यात् । पक्षे ठञिति फलितम् । “ अप्सुमन:समासिकतावर्षाणाम्बहुत्वञ्च"

इति लिङ्गानुशासनसूत्रम् । "हायनोऽस्त्रीशरत्समाः' इत्यमरः । समां समां

विजायते' इति सूत्रादेकवचनमप्यस्ति । पञ्चस्विति ॥ तेन निर्वृत्तम् । तमधीष्टो भृतो भूतो भावीति पञ्चस्वित्यर्थः । एषां यथायोगमन्वयः । द्वैसमिक इति ॥ खाभावे प्राग्वतीयष्ठञ् । रात्र्यहः ॥ द्विगोरित्येवेति ॥ रात्रि, अहन्, संवत्सर, एतदन्तात् द्विगोर्निर्वृत्तादिष्वर्थेषु