पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२४

पुटमेतत् सुपुष्टितम्
९५०
[द्विरुक्त
सिद्धान्तकौमुदीसहिता

समासस्य' (सू ३७३४) इत्यन्तोदात्तत्वं व । पटुपट्वी । पटुपटुः । पटु सदृशः । ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पट: । “आनुपूव्ये द्वे वाच्ये' (वा ४६९२) । मूले मूले स्थूलः ।'सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः’ (वा ५०५६) । सर्प सर्प, बुध्यस्व बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वा ४६९५) लुनीहि लुनीहीत्येवायं लुनाति । “नित्यवीप्सयोः' (सू २१४०) इति सिद्धे भृशार्थे


पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपि ‘स्त्रियाः पुंवत्' इति पुवत्त्वादिदं सिद्धम्, तथापि कारिकेत्यादिकोपधादिष्वपि पुवत्वार्थे कर्मधारयवदिति वचनमिति भावः । पटुपटुरितेि ॥ 'वोतो गुणवचनात्' इति ङीषभावे पुंसि च द्विर्वचने रूपम् । पटुसदृश इति ॥ इत्यर्थ इति शेषः । फलितमाह । ईषत्पटुरिति ॥ इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति । गुनेणोपसर्जनेति ।। शुक्लशुक्लं रूपमिति।। शुक्लसदृशमित्यर्थः । ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्द्यम् । आनुपूव्यै इति।। अत्र वार्तिके कर्मधारयवदिति न सम्बध्यते । तदुदाहरणे तु भाष्ये सुब्लोपदर्शनादित्यभिप्रेत्योदाहरति | मूलेमूले इति। | पूर्वपूर्वो मूलभागः उत्तरातरमूलभागापक्षया स्थूल इति यावत् । सम्भ्रमेणेति ।। वार्तिकमिदम् । सम्भ्रमः भयादिकृता त्वरा, तेन प्रवृत्तौ गम्यमानायां यथेष्टम् इच्छानुसारेण अनेकधा शब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेकधेत्युक्त्तेर्द्वे इति निवर्तते | यथेष्टमित्युक्तेरसकृत्वेऽप्येकस्य प्रयोगः स्यादिति शङ्कान्निरस्यति । न्यायसिद्ध इति ॥ यावद्वारम्प्रयोगे सति बोद्धा अर्थम्प्रत्येति तावद्वारमेव प्रयोगः । बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्रापि कर्मधारयवत्त्वातिदेशान्न सुब्लुक् । भाष्ये तथैवोदाहरणात् । क्रियासमभिहारे चेति ॥ वार्तिकमिदम् । द्वे स्त इति शेष । पौनःपुन्य भृशत्वञ्च क्रियासमभिहारः । लोडन्तविषय मेवेदम् । “क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमो.” इति सूत्रभाष्ये क्रियासमभि हारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति । लुनीहि लुनीहीत्येवायं लुनातीति ॥ 'लूञ् छेदने' अस्मात् 'क्रियासमभिहारे लोट् लोटो हिस्वौ इति लोट्। तस्य हि इत्यादेशः श्राविकरणः । लुनीहीत्यस्य अनेन द्विर्वचनम् । ‘यथाविध्यनु प्रयोगः पूर्वस्मिन् इत्यनुप्रयोगः । तस्माल्लडादयः । अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः । एककर्तृक लवनमनुप्रयोगस्यार्थः । इतिशब्दस्त्वभेदान्वये तात्पर्यङ्काहयतीत्यादि मूल एव लकारार्थप्रक्रियायां स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः । नित्येति ॥ “नित्यबीप्सयोः' इति पौनःपुन्ये द्विर्वचने सिद्धेऽपि भृशार्थे १. अत्र च ‘चापले च' (वा ४६९४) इति वार्तिके, “नचावश्यं द्वे एव । यावद्रिः सोऽथों गम्यते तावन्तः प्रयोक्तव्याः’ इति भाष्यं च मानम् ।