पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२८

पुटमेतत् सुपुष्टितम्
९५४
द्विरुक्त
सिद्धान्तकौमुदीसहिता

२१४८ । अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । (८-१-१३ )

प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि तदेव वचनम् । अतिश्रियमपि वस्त्वना यासेन ददातीत्यर्थः ।

२१४९ । यथास्वे यथायथम् । (८-१-१४)

'यथास्वम्’ इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशध्दस्य द्वे कृीबत्वं च निपात्यते । यथायथं ज्ञाता । यथास्वभावमित्यर्थः। यथात्मीयमिति वा।

२१५०

द्विशब्दस्य द्विर्वचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः ।


समासे सोरलुगिति विज्ञायते इत्यर्थः । अकृच्छ्रे ।। कृच्छ्रं कष्टम् । अकृच्छ्रम् अनायासः । तस्मिन्वर्तमानयोः प्रिय, सुख, इत्यनयोः द्वे वा स्तः । कर्मधारयवद्भावादिति ॥ “कर्मधारयवदुत्तरेषु' इत्यधिकारादिति भावः । “समासवच्च बहुळम्' इत्यतः समासवदित्यनुवृत्तिस्तु न शङ्कया । तस्य वार्तिकस्थत्वात् । एवञ्च प्रियेणेत्यस्य सुखेनेनत्यस्य च द्वित्वे सति कर्मधारयवत्त्वात् सुपोस्तृतीयैकवचनयोर्लुकि पुनः समुदायात् तृतीयैकवचनमिति फलितम् । यथास्वेयथायथम् । वीप्सायामिति ।। कार्त्स्न्येन सम्बन्धो वीप्सेत्युक्तम् । स्वशब्दार्थगतकार्त्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाव्ययीभाव इत्यर्थः । कृत्स्नश्चासौ स्वश्रेत्यस्वपदविग्रहः । नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची । इह तु आत्मात्मीयवाच्येव गृह्यते । नतु ज्ञातिधनवाची । व्याख्यानादित्यभिप्रेत्य विग्रहवाक्यस्य फलितमर्थमाह । द्वे इति।। स्त इति शेषः । निपातनादिति भाव । न च 'नित्यवीप्सयोः' इत्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्कयम् । द्वित्वविषयस्य शब्दस्य लक्षणया कार्त्स्न्यविशिष्टे वृत्तावेव वीप्सायाः द्विवचनविधानात् । अन्यथा सर्वो घटः इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्लीबत्वमिति ।। यथायथा इति समुदायस्येति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवञ्च कृतद्वित्वस्य नपुंसकहस्वत्वञ्च फलितम् । यथायथं ज्ञातेति ।। अत्र ज्ञातेति तृन्नन्तम् । तद्योगे ‘न लोक' इति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तु यथायथस्य ज्ञातेत्येव । द्वन्द्धं रहस्य ।। पूर्वपदस्येति ।। द्वौ द्वाविति द्वित्वे कर्मधारयवत्त्वात् सुब्लुकि समुदायात् पुनः सुपि पूर्वपदावयवस्य इकारस्य अम् इति मकारान्तादेश इत्यर्थः ।

अत्वमिति।। उत्तरपदस्य अकारोऽन्तादेश इत्यर्थः । न च यदाद्यत्वमुत्तरपदान्तस्य