पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१२९

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९५५
बालमनोरमा ।

। द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापि मर्यादीकृत्य । व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन पृथगवस्थिताः । द्वन्द्वै यज्ञपात्राणि प्रयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वम् इष्यते ।

इति द्विरुक्तप्रकरणम् ।

॥ इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्धं समाप्तम् ॥


सिद्धमिति वाच्यम् । संज्ञात्वात्तदप्राप्तरित्याहुः । नपुंसकत्वं चेति ।। चकारः अनुक्तसमुच्चये । कृतद्वित्वस्य नपुंसकत्वं द्विवचनाभाववेत्यर्थः । आचतुरं हीति ।। आङभिविधौ। ‘आङ्मर्यादा' इत्यव्ययीभावः । शरत्प्रभृतित्वात् टच् । चतुर्थान्तामिति फलितोऽर्थः । पशवः स्वप्रभृति चतुर्थपर्यन्तं द्वन्द्वं मिथुनीयन्ति इत्यन्वयः । मिथुनशब्देन मैथुनं विवक्षितम् । मिथुनस्य कर्म मैथुनम् । तदिच्छतीत्यर्थे 'सुप आत्मनः’ इति क्यच् । फलितमर्थमाह ! मिथुनङ्गच्छतीति ।। मिथुनत्वं प्राप्नोतीत्यर्थः । मिथुनायन्ते इति क्यङ्पाठस्तु प्रामादिकः । मर्यादीकृत्येति ॥ स्वप्रभृति चतुरोऽभिव्याप्येत्यर्थः । अत्यन्तसहचरितत्वेन लोकविज्ञानाभिव्यक्तिरिति भाष्याल्लभ्यते । तदाह । साहचर्येणेत्यर्थः इति ।। अत्र द्वन्द्वं न्यञ्चीत्यत्र वीप्सायां द्वित्वम् । अन्यत्र स्वार्थे इति बोध्यम् । अन्यत्रापीति ।। द्वन्द्वानि सहते इत्यादावित्यर्थः । शीतमुष्णश्च एकद्वन्द्वम् । सुखं दुःखञ्चापरम् । क्षुत्तृष्णा चान्यत् । इह स्वार्थे द्वन्द्वः । अम्भावादि पूर्ववत् । ‘चार्थे द्वन्द्वः' इति निपातनादन्यत्रापीति सिद्धम् ॥—इति द्विरुक्तप्रकरणम् ॥ इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्मषोडशारथचक्राकारादिबहुगुण्णविराजमानप्रौढापरिमित महाध्वरस्य श्रीशाहजी शरभजी तुक्कोजी भोसलचोळ्महीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दरायविद्वत्सार्वभौमस्याध्वर्युणा पञ्चपुरुषीपोष्येण बाल्य एव तद्दयानिर्वर्ति तापरिमिताग्निविजृम्भितवाजपेयसर्वपृष्ठाप्तोर्यामप्रमुखमखसन्तर्पितशतमख प्रमुखबर्हिर्मुखेन पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविश्वेश्वरवाज पेयथाजितो लब्धविद्यावैशद्येन अध्वरमीमांसाकुतूहलवृत्ति निर्माणप्रकटितसर्वतन्त्रस्वातन्त्र्येण बोधायनापस्तम्ब सत्याषाढभारद्वाजकात्यायनाश्वलायनद्राह्याय णादिकल्पसूत्रतद्भाष्यपारीणमहादेववाज पेययाजिसुतेन अन्नपूर्णाम्बागर्भजातेन वासुदेवदीक्षितविदुषा विरचिता यां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पूर्वार्धम्

 ||सम्पूर्णम् ||