पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१५

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८४१
बालमनोरमा ।

१७५८ । तदस्य ब्रह्मचर्यम् । (५-१-९४)

द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् । “महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसङ्ख्यानम्’ (वा ३०६४) । महानाम्न्यो नाम “विदा मघवन्-' इत्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढे-' इति पुंवद्भावान्माहानामिक इत्याह । ’चतुर्मासाण्ण्यो यज्ञे' तत्र भव इत्यर्थे (वा ३०६९) । चतुर्षु मासेषु भवन्ति चातुर्मास्यानि, यज्ञ कर्माणि । अण् संज्ञायाम् (वा ३०७०) । चातुर्मासी, पौर्णमासी । अण्ण न्तत्वान्ङीप् ।

१७५९ । तस्य च दक्षिणा यज्ञाख्येभ्यः । (५-१-९५)


परिजय्य इत्यस्य विवरणञ्जेतुं शक्य इति । तदस्य ब्रह्मचर्यम् ॥ ननु द्वितीयान्तादिति कथम् । सूत्रे ब्रह्मचर्यविशेषणस्य तच्छब्दस्य प्रथमान्तत्वादित्यत आह । अत्यन्तेति ॥ तथाच कालविशेषणमभिव्याप्तब्रह्मचर्यवानित्यर्थे कालात्प्रत्ययः । इदमर्थे प्रति ब्रह्मचर्ये विशेषणम्। मासिको ब्रह्मचारीति ॥ मासाभिव्याप्तब्रह्मचर्यवानित्यर्थः । आर्धमासिक इति ॥ “अर्धात्परिमाणस्य’ इत्युभयपदवृद्धिः । अत्र इदंशब्दार्थस्य ब्रह्मचारिणः प्राधान्यम् । मासा भिव्याप्तब्रह्मचर्यन्तु तद्विशेषणमिति स्थितिः । यद्वेति ॥ सूत्रे तदिति प्रथमान्तम् । ब्रह्मचर्यमिति षष्ठ्यर्थे प्रथमा । तथाच प्रथमान्तात्कालवाचिनः अस्य ब्रह्मचर्यस्येत्यर्थे ठञित्यर्थः फलति । तदाह । प्रथमान्तादिति ॥ कालवाचिन इति शेषः । अस्येत्यर्थे इति । अस्य ब्रह्मचर्यस्येत्यर्थे इत्यर्थः । मासोऽस्येत्यनन्तरं ब्रह्मचर्यस्येति शेषः । अस्मिन्पक्षे ब्रह्मचर्यमेव प्रत्ययार्थत्वात्प्रधानम् । इदमर्थस्तु तद्विशेषणमिति बोध्यम् । उपसङ्ख्यानमिति । अस्य ब्रह्मचर्यमित्यर्थे ठञ् इति शेषः । माहानाम्निक इति ॥ महानाम्नीशब्दस्य ऋग्विशेषेषु रूढस्य नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाभावात् “भस्याढे' इति पुंवत्त्वं नेति भावः । हरदत्तस्त्विति ॥ महानाम्निकमित्येव भाष्ये उदाहृतत्वादिदमुपेक्ष्यमिति भावः । चतुर्मासाण्ण्यो यज्ञे,तत्र भवः इति ॥ वार्तिकमिदम् । तत्र भवो यज्ञः इत्यर्थे चतुर्मासशब्दात्सप्तम्य न्ताण्ण्यो वाच्य इत्यर्थः । चतुर्ष्विति ॥ चतुर्षु मासेषु अतीतेष्वित्यर्थः । अण्संज्ञायामिति ॥ वार्तिकमिदम् । चतुर्मासशब्दात् भवार्थे अण वाच्यः संज्ञायामित्यर्थः । चतुर्ष्विति ॥ फाल्गुनीं पौर्णमासीमारभ्य चतुर्षु मासेष्वतीतेष्वित्यर्थः । आषाढीति ॥ आषाढ्य.: पौर्णमास्याः चातुर्मासीति संज्ञेति भावः । नच 'तत्र भवः’ इत्यणैव सिद्धमिति वाच्यम् । 'द्विगोर्लुगनपत्ये ' इति लुङ्निवृत्त्यर्थत्वात् । तस्य च दक्षिणा ॥ तस्य दक्षिणेत्यर्थे यज्ञकालनिवृत्तिभ्यः P 106