पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/२४

पुटमेतत् सुपुष्टितम्
८४८
[नञ्स्नञधिकार
सिद्धान्तकौमुदीसहिता

इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । “ नञ्पूर्वात्' किम् । बार्हस्पत्यम् । 'तत्पुरुषात्' किम् । नास्य पटवः सन्तीत्यपटुः तस्य भावः आपटवम् । 'अचतुर-' इति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ।

१७८४ । पृथ्वादिभ्य इमनिज्वा । (५-१-१२२)

वावचनमणादिसमावेशार्थम् ।

१७८५ । र ऋतो हलादेर्लघोः । (६-४-१६१ )

हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ।

१७८६ । टेः । (६-४-१५५)


इत्युत्तरस्य प्रतिषेध इति भाष्यादिति भाव । चतुरादीनिति ॥ चतुर, सङ्गत, लवण, वट बुध, कत, रस, लस, एतान् वर्जयित्वत्यर्थः। अपतित्वमिति । इह ‘पत्यन्तपुरोहितादिभ्य:' इति यक् न भवति । अपटुत्वमिति ॥ इह 'इगन्ताच्च लघुपूर्वात्' इत्यण् न भवति । बार्हस्पत्यमिति ॥ “पत्यन्तपुरोहितादिभ्यः’ इति यक् । आपटवमिति ॥ “इगन्ताच्च लघुपूर्वात्’ इत्यण् । अपटुशब्दस्य बहुव्रीहित्वात्तत्पुरुषत्वाभावान्नास्याणो निषेध इति भावः । आचतुर्यमिति ॥ अचतुरस्य भावः ब्राह्मणादित्वात्ष्यञ् । आासङ्गत्यमिति ॥ असङ्गतशब्दात् ष्यञ् । आलवण्यमिति ॥ अलवणशब्दात् ष्यञ्। आवट्यमिति ॥ न वटः अवट: तस्मात् ष्यञ् । आयुध्यमिति ॥ अयुधशब्दात् ष्यञ् । आकत्यमिति ॥ अकतशब्दात् ष्यञ् । आरस्य-मितेि ॥ अरसशब्दात् ष्यञ् । आलस्यमिति ॥ लसतिः लसः न लसः अलसः तस्मात् ष्यञ् । पृथ्वादिभ्य इइमनिज्वा ॥ तस्य भावः इत्यनुवर्तते । पृथ्वादिभ्यः षष्ठ्यन्तेभ्यः भावे इमनिज् वा स्यादित्यर्थः । ननु वाग्रहणं व्यर्थम् । “समर्थानाम्प्रथमाद्वा' इति महाविभाषयैव वाक्यस्य सिद्धत्वात् । नच इमनिजभावे त्वतल्प्रत्ययार्थं वाग्रहणमिति वाच्यम् । आचत्वादित्येव तत्समावेशसिद्धेरित्यत आह । वावचनमणादिसमावेशार्थमिति ॥ पृथुमृदुप्रभृतिषु ’इगन्ताच्च लघुपूर्वात्’ इत्यण् । चण्डखण्डादिषु गुणवचनलक्षणष्यञः बालवत्सादिषु वयोवचनलक्षणस्य अञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः । अन्यथा महाविभाषावशादपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ’पारे मध्ये षष्ठ्या वा’ इति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच् त्वतलामभावे तेषां प्रवृतिर्न स्यादिति भावः । र ऋतो हलादेः ॥ र इति प्रथमान्तम् इष्टमेयस्स्विति शेषपूरणम् । ’तुरिष्टमेयस्सु' इत्यतः तदनुवृत्तेरिति भावः । अङ्गस्येत्यधिकृतं हलादेरङ्गस्य लघोः ऋकारस्य र इति रेफाकारसङ्गात आदेशः स्यात् । इष्टनि इमनि ईयसि च परे इत्यर्थः । टेः ॥ इष्ठेमेयस्सु