पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/२८

पुटमेतत् सुपुष्टितम्
८५४
[पाञ्चमिक
सिद्धान्तकौमुदीसहिता

होत्रावाचिनो ब्रह्मन्शब्दात्त्वः स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेति वाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु त्वतलौ ब्रह्मत्वम-ब्रह्मता

इति तद्धितेनञ्स्नञधिकारप्रकरणम् ।

अथ तद्धिते पाञ्चमिकप्रकरणम् ।

१८०२ । धान्यानां भवने क्षेत्रे खञ् । (५-२-१)

भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ।

१८०३ । व्रीहिशाल्योर्ढक् । (५-२-२)

व्रैहेयम् । शालेयम् ।

१८०४ । यवयवकषष्टिकाद्यत् । (५-२-३)


इत्यनुवृत्तमेकवचनेन विपरिणम्यते । तदाह । होत्रावाचिन इति।। ऋत्विग्वाचिन इत्यर्थः । ननु ब्रह्मणो नेत्येवास्तु । ब्रह्मणश्छो न इत्यर्थलाभे सति छे निषिद्धे “आ च त्वात्' इत्यधिकारात् ’होत्राभ्यः छ:’ इत्येव भावकर्मणोस्त्वप्रत्ययः सिध्यतीत्यत आह । नेति वाच्ये इति ।। तलो बाधनार्थमिति ॥ अधिकारवशाद्धोत्राभ्य इति भावकर्मणोः प्राप्तस्य तलो निवृत्त्यर्थमित्यर्थः । एतेन ‘तस्य भावस्त्वतलौ' इत्यनेन ब्रह्मणः कर्मणि त्वस्याप्राप्तेस्तदर्थं त्वप्रत्ययविधानमिति न शङ्क्यम् । नापि ब्रह्मणो नेत्युक्ते पूर्वसूत्रविहितानां त्वतल्छानां निषेधः स्यादित्यपि शङ्क्यम्। शब्दोपात्तस्य छस्यैव निषेधात् । अत्र होत्राग्रहणानुवृत्तेः प्रयोजनमाह । ब्राह्मणपर्यायादिति ।।

इति तद्विते नञ्स्नञोरधिकारः ।

अथ पाञ्चमिका निरूप्यन्ते-धान्यानां भवने ॥ धान्यवाचिभ्यः षष्ठ्यन्तेभ्यः भवने क्षेत्रेऽर्थे खञित्यर्थः । भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह । भवन्त्यस्मिन्निति भवनमिति । भूधातुरुत्पत्तिवाची । उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पतिस्थान क्षेत्रम् । “केदारः क्षेत्रम्' इत्यमरः । क्षेत्रशब्दाभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्यं गृहकुसूलादि लभ्येत । अतः क्षेत्रपदम् । भवनपदाभावे तु क्षेत्रशब्देन सेतुबन्धकाश्यादिपुण्यप्रदेशोऽपि लभ्येत । अतो भवनपदम् । उभयोपादाने तु धान्योत्पत्तिप्रदेश एव लभ्यते इति न पौनरुक्त्यम्। वीहिशाल्योर्ढक् ॥ व्रीहिशब्दात् शालिशब्दाच्च षष्ठ्यन्ताद्भवने क्षेत्रेऽर्थे ढगित्यर्थः । खञोऽपवादः । यवयवक ॥ यव, यवक, षष्टिक, एभ्यः षष्ठ्यन्तेभ्यो भवने क्षेत्रे