पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/२९

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८५५
बालमनोरमा ।

प्रकरणम्] ८५५ यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ।

१८०५ । विभाषा तिलमाषोमाभङ्गाणुभ्यः । (५-२-४)

यद्वा स्यात् । पक्षे खञ् । तिल्यम्-तैलीनम् । माष्यम्-माषीणम् । उम्यम्-औमीनम् । भङ्ग्यम् -भाङ्गीनम् । अणव्यम्-आणवीनम् ।

१८०६ । सर्वचर्मणः कृतः खखञौ (५-२-५)

असामर्थ्येऽपि निपातनात्समासः। सर्वश्चर्मणा कृतः सर्वचर्मीणः-सार्वचर्मीणः।

१८०७ । यथामुखसम्मुखस्य दर्शनः खः । (५-२-६)

मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं सम्मुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनः सम्मुखीनः ।

१८०८ । तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । (५-२-७ )


यत्स्यादित्यर्थः । खञ्जोऽपवादः । धान्यानामित्यनुवृत्तेरिहापि षष्ठ्येव समर्थविभक्तिः । विभाषातिल । तिल, माष, उमा, भङ्ग, अणु, एभ्यो धान्यविशेषवाचिभ्यः षष्ट्यन्तेभ्यो यद्वा स्यादित्यर्थः । “उमाभङ्गौ धान्यविशेषौ' इति भाष्यम् । “उमा स्यादतसी क्षुमा' इत्यमरः । अणव्यमिति ।। अणुर्धान्यविशेषः । यति ‘ओर्गुणः’ “वान्तो यि” इत्यवादेशः। सर्वचर्मणः ।। सर्वचर्मन्शब्दात्तृतीयान्तात् चर्मणा सर्वङ्कृत इत्यर्थे खखञौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयात् चर्मण्यन्वयाभावादसामर्थ्याच्चर्मणासमासासम्भवात् कथं सर्वचर्मन्शब्दात्प्रत्यय इत्यत आह । असामर्थ्येऽपीति।। सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्रः कृत इत्यर्थः । सर्वचर्मीण इति ॥ ’नस्तद्धिते’ इति टिलोपः । सर्वेण चर्मणा । कृत इत्यर्थे तु न खखञौ । व्याख्यानात् । यथामुख ।। यथामुख सम्मुख आभ्यां षष्ठयन्ताभ्यां दर्शनः इत्यर्थे खः स्यादित्यर्थः । दृश्यन्तेऽस्मिन्निति दर्शनः आदर्शादिः । ननु मुखस्य सदृश यथामुखमिति कथमव्ययीभाव । ‘यथाऽसादृश्ये ' इति सादृश्ये तन्निषधादित्यत आह । निपातनादिति ॥ सम्मुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किन्तु समशब्दस्य, सर्वपर्यायस्येत्याह । समं सर्वे मुखं सम्मुखमिति ॥ सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखञ्चेति कर्मधारये सम्मुखशब्द इत्यर्थः । निपात्यत इति ॥ इदञ्च भाष्ये स्पष्टम् । एवञ्च समित्युपसर्गपूर्वादयम्प्रत्ययो नेष्यते इति भावः । तत्सर्वादेः ॥ पथिन्, अङ्ग, कर्मन्, पत्र, पात्र, एषां समाहारद्वन्द्वात् पञ्चम्यर्थे द्वितीया । प्रातिपदिकविशेषणत्वात्तदन्तविधिः ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तीति निषेधस्तु न । केवलानामेषां सर्वादित्वस्यासम्भवात् । तदिति तु द्वितीयान्तं