पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३१

पुटमेतत् सुपुष्टितम्

प्रकरणम्] बालमनोरमा ८५७ अनुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गम् । तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेव । खप्रत्ययसंनियोगेनैव परोवरेति निपातनात् ।

१८१२ । अवारपारात्यन्तानुकामं गामी । (५-२-११)

अवारपारं गामी अवारपारीणः-अवारीणः-पारीणः-पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः ।

यथेष्टं गन्ता

१८१३ । समां समां विजायते । (५-२-१२)

यलोपोऽवशिष्टविभक्तेरलुक्च पूर्वपदे निपात्यते । समांसमीना गौः ।


इत्यर्थः । एवञ्च विग्रहवाक्ये इदमुत्त्वन्न भवति । प्रकृतेरिति ।। परपरतरशब्दात् द्वन्द्वात्खे सति तत्सन्नियोगेन प्रकृतेः परम्परभावो निपात्यते इत्यर्थः । नन्वेवं सति कल्याणपरम्परेत्यादौ कथं परम्पराशब्दः । परम्पराभावस्य खप्रत्ययसन्नियोगशिष्टत्वादित्यत आह । परम्पराशब्दस्त्विति ।। तस्मादेवेति ।। परम्परेत्यव्युत्पन्नप्रातिपदिकादेवेत्यर्थः । कथमिति ।। परावरशब्दात् भावे वा स्वार्थे वा ष्यञि अवरस्यादेरुत्त्वे परोवर्यशब्दात् मतुपि परोवर्यवदिति कथमित्याक्षेपः । उत्त्वस्य खप्रत्ययसन्नियोगशिष्टत्वादिति भावः । उत्त्वन्दुरुपपादमेवेत्याह । असाधुरेवेति ।। नन्वत्र परोवरेति निर्देशात् खादन्यत्राव्युत्पन्नत्वं किन्न स्यादित्यत आह । खप्रत्ययसन्नियोगेनैवेति ।। अत एव भाष्ये “परांश्चावरांश्चानुभवति ” इत्येव विग्रहो दर्शित इति भावः । अवारपार ।। अवारपार, अत्यन्त, अनुकाम, एभ्य. गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः । “ आवश्यकाधर्मर्ण्ययोर्णिनि.' इति णिनिः । “भविष्यति गम्यादयः’ इति भविष्यत्कालता । “बहुळमाभीक्ष्ण्ये' इति वा णिनि । अवारपारीण इति ॥ अवारपारङ्गामीति विग्रहः । अवारपारशब्दाद्विगृहीतादपि । व्याख्यानात् । तदाह । अवारीणः, पारीणः इति ॥ अत्यन्तीन इति ॥ अत्यन्तशब्दोऽत्र भृशवाची । तदाह । भृशङ्गन्तेति ॥ अनुकाममिति ॥ कामः इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्ययीभावः । समां समाम् ॥ विपूर्वो जनिर्गर्भविमोचने वर्तते । विजायते गर्भम् । विमुञ्चतीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकः । अतो न कर्मणि द्वितीया । गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोगलक्षणा द्वितीयापि न भवति । किन्तु सप्तम्येव । तत्र सप्तम्यन्तस्य समायामित्यस्य ‘नित्यवीप्सयोः' इति द्विर्वचने समायां समायामिति भवितव्यम् । तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते समां समामिति । समायां समायामित्यर्थः । एवञ्च समायां समायां विजायते इत्यर्थे सप्तम्यन्तद्वयसमुदायात् विजायते इत्यर्थे खः स्यादिति फलितम् । ननु सप्तम्यन्तद्वयसमुदायात् खप्रत्ययोत्पत्तौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात् तदवयवयोः सप्तम्योर्लुकि समासमीनः इति स्यात् । इष्यते तु समांसमीनेति । तत्राह । यलोपइति ॥ पूर्वपदे

P 108