पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३२

पुटमेतत् सुपुष्टितम्
८५८
[पाञ्चमिक
सिद्धान्तकौमुदीसहिता

'समांसमीना सा यैव प्रतिवर्षं प्रसूयते' इत्यमरः । 'खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः'| (वा ३१००) । समां समां विजायते । समायां समायां वा ।

१८१४ । अद्यश्चीनावष्टब्धे । (५-२-१३)

अद्य श्वो वा विजायते अद्यश्वीना बडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायते इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः

१८१५ । आगवीनः । (५-२-१४)

आङ्पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ।

१८१६ । अनुग्वलङ्गामी । (५-२-१५)

अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ।

१८१७ । अध्वनो यत्खौ । (५-२-१६)

विभक्तेरवयवस्य यकारस्य लोपः । अवशिष्टस्य विभक्त्यंशस्य अलुक्च निपात्यते इत्यर्थः । भाष्ये तु “यलोपनिपातनादवशिष्टविभक्त्यंशस्य न लुक्” इत्युक्तम् । ननु समां समामिति निर्देशात् उत्तरपदेऽपि यकारलोपः अवशिष्टविभक्त्यंशस्य अलुक् च स्यादित्यत आह । पूर्वपदे इति ॥ 'पूर्वपदस्य यलोपवचनम्' इति वार्तिकादिति भावः । खप्रत्ययानुत्पत्ताविति ॥ पदद्वयेऽपीति शेषः । इह विभाषया कदाचित् खप्रत्ययाभावे सति समायां समायां विजायते इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः । तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः । सूत्रे उभयत्रापि तथोच्चारणात् । विकल्प एव तु यलोपस्य वाक्यदशायां वाचनिक इति बोध्यम् । एतत्सर्वं भाष्ये स्पष्टम् । अद्यश्वीनावष्टब्धे ॥ अद्यश्वीनेत्यविभक्तिको निर्देशः । अवष्टब्धम्, आसन्नम् “अवाच्चालम्बनाविदूर्ययोः' इत्याविदूर्ये स्तम्भेः षत्वविधानात् अद्य श्वो वा विजायते इत्यर्थे अद्यश्वस् इति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः । अद्यश्चीना बडबेति ।। अद्य वा श्वो वेति वार्थे निपातनात्समासः । खे सति “अव्ययानाम्भमात्रे' इति टिलोपः । सूत्रे अद्यश्वीनेति टाबन्तनिर्देशे तु अद्यश्वीनो गोसमूहः, अद्यश्वीनङ्गोमण्डलमिति न स्यात् । आगवीनः ॥ कर्मकरे इति ।। वार्तिकलभ्यमिदम् । भृतिङ्गृहीत्वा यः कर्म करोति स कर्मकरः । अत्र गोपालो विवक्षितः । स हि प्रातर्गाङ्गृहीत्वा आसायश्चारयित्वा स्वामिनो गृहं नीत्वा प्रत्यर्पयति । तदाह । गोः प्रत्यर्पणेति ।। आागावीन इति ।। गोशब्दो गोप्रत्यर्पणे लाक्षणिक । “ आङ्मर्यादाभिविध्योः' इत्यव्ययीभावे गोस्त्रियोः' इति हस्वत्वे आगुशब्दात् खे “ओर्गुणः’ इति भावः । अनुग्वलङ्गामी ॥ अनुगु इत्यविभक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्रस्वत्वे अनुशब्दः । तस्मात् अलङ्गामीत्यर्थे खः स्यादित्यर्थः । अत्र अनुगु इत्यस्य क्रियाविशेषणत्वात् द्वितीयैव