पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३६

पुटमेतत् सुपुष्टितम्
८६२
[पाञ्चमिक
सिद्धान्तकौमुदीसहिता

३११५) । अविपट: । 'द्वित्वे गोयुगच्' । (वा ३११६) । द्वौ वृषौ वृषगो युगम् । “ षड्त्वे षड्गवच्’ (वा ३११७) अश्वषड्गवम् । “स्नेहे तैलच्' (वा ३११८) । तिलतैलम् । सर्षपतैलम् । भवने क्षेत्रे शाकटशाकिनौ' (वा ३११९) । इक्षुशाकटम् । इक्षुशाकिनम् ।

१८३१ । अवात्कुटारच्च । (५-२-३०)

चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ।

१८३२ । नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः । (५-२-३१)

अवात्' इत्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनाटम् । अवभ्रटम् । तद्योगान्नासिका अवटीटा । पुरुषोऽप्यवटीट: ।

१८३३ । नेर्बिडिज्बिरीसचौ । (५-२-३२)

निबिडम् । निबिरीसम् ।

१८३४ । इनच्पिटचि्चकचि च । (५-२-३३)

'नेः' इत्येव । नासिकाया नतेऽभिधेये इनच्पिटचौ प्रत्ययौ प्रकृतेश्चिक चि इत्यादेशौ च । “कप्रत्ययचिकादेशौ च वक्तव्यौ' (वा ३१२१) ।


वक्तव्या इत्यर्थः । गोष्ठजादीनां प्रत्ययानां स्थानादीनाञ्चार्थानां प्रपञ्चपराणि “सङ्घाते कटच्’ इत्यादीनि शाकटशाकिनावित्यन्तानि षड्वार्तिकानि । तेषु पशुनामभ्य इत्यनुवर्तते । अप्रसृतावयवः सङ्घातः । प्रसृतावयवस्तु विस्तारः । द्वित्व इति ।। प्रकृत्यर्थगत द्वित्व इत्यर्थः । द्वौ वृषौ वृषगोयुगमिति ।। द्व्यवयवकसङ्घाताभिप्रायमेकवचनम् । द्वयं युग्ममित्यादिवत् । केचित्तु द्वौ वृषावित्यर्थे वृषगोयुगमिति स्वभावादेकवचन विंशतिरित्यादिवदित्याहुः । एवमुष्ट्रगोयुगम् । अश्वषड्गवम् । अवात्कुटारच्च ॥ क्रियाविशिष्टसाधनवाचकादवात्स्वार्थे कुटारच्च स्यादित्यर्थः । अवाचीन इति ।। अवाचीने विद्यमानादवात् कुटारचि अवकुटारमित्यर्थः । नते नासिकाया ॥ अवादित्येवेति ।। अवशब्दात् नासिकाया अवनतेऽर्थे टीटच्, नाटच्, भ्रटच्, एते प्रत्ययाः स्युरित्यर्थः । “णमु प्रह्वत्वे ' इति धातोर्भावे क्तप्रत्यये नतशब्द इत्यभिप्रेत्य आह । नतं नमनमिति ।। प्रह्वत्वमित्यर्थः । ननु यदि नासिकायाः नमनमवटीटं तर्हि अवटीटा नासिकेति कथमित्यत आह । तद्योगादिति ।। नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति ।। तादृशनासिकायोगादिति भावः । नेर्बिडज्बिरीसचौ ॥ 'नते नासिकायाः संज्ञायाम्' इत्यनुवर्तते । नेः नासिकाया नतेऽर्थे बिडच्, बिरीसच्, द्वौ प्रत्ययौ स्त इत्यर्थः । निबिडा वृक्षा इति तु उपमानादित्याहुः । इनच् पिटच् । इनच्, पिटच् इति समाहारद्वन्द्वात्प्रथमैकवचनम् । चिकचि इत्यपि चिक चि इत्यनयोः समाहारद्वन्द्वात्प्रथमैकवचनम् । प्रकृतेरिति ।। नेरित्यर्थः । तत्र इनचि परे चिक