पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३७

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८६३
बालमनोरमा ।

चिकिनम् । चिपिटम् । चिक्कम् । 'क्लिन्नस्य चिल्पिलश्चास्य चक्षुषी' (वा ३१२२) । क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः । ‘चुल् च' (वा ३१२३) । चुल्लः ।

१८३५ । उपाधिभ्यां त्यकन्नासन्नारूढयोः । (५-२-३४)

'संज्ञायाम्' इत्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ।

१८३६ । कर्मणि घटोऽठच् । (५-२-३५)

घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ।

१८३७ । तदस्य सञ्जातं तारकादिभ्य इतच् । (५-२-३६)

तारकाः सञ्जाता अस्य तारकितं नभः । आकृतिगणोऽयम् ।

१८३८ । प्रमाणे द्वयसज्दघ्नञ्मात्रचः । (५-२-३७)


इत्यादेशः । तत्र अकारः उच्चारणार्थः । पिटचि तु परे चि इत्यादेश । कप्रत्ययेति ॥ उक्तनेः कप्रत्ययः । प्रकृतेः चिकादेशश्चेत्यर्थः । अयमपि ककारान्त एवादेशः । चिकिनमिति ॥ इनचि प्रत्यये कृते नेः चिकादेशे रूपम् । चिपिटमिति ।। पिटचि कृते नेः चि इत्यादेशे रूपम् । चिक्कमिति ।। कप्रत्यये नेः चिकादेशे रूपम् । क्लिन्नस्यचिल्पिल्लश्चास्य चक्षुषी इति ।। वार्तिकमिदम् । चिल् पिल् इति समाहारद्वन्द्वात्प्रथमैकवचनम् । क्लिन्ने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दात् अस्य चक्षुषी इत्यर्थे लप्रत्ययः प्रकृतेः चिल् पिल् एतावादेशौ स्त इत्यर्थः । किन्ने इति । नेत्रामयप्रयुक्तजलनिष्पन्दवती इत्यर्थः । चिल्लःपिल्ल इति ॥ किन्नचक्षुष्क इत्यर्थः । चल् चेति ।। उक्तविषये क्लिन्नस्य चुल् आदेशश्च, लप्रत्ययसन्नियोगेन वक्तव्य इत्यर्थः । उपाधिभ्याम् ।। उप, अधि, आभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन्प्रत्ययः स्यादित्यर्थः । आसन्नं समीपम्। आरूढम् उच्चम् । अनुवर्तते इति ।। ‘नते नासिकायाः’ इत्यस्मादिति भावः । कस्य समीपं कस्योच्चम् इत्याकाङ्क्षायां संज्ञाधिकारात् पर्वतस्येति लभ्यते इत्यभिप्रेत्य आह । पर्वतस्येति । उपत्यका, अधित्यकेति ॥ स्त्रीत्वं लोकात् । अत्र ‘प्रत्ययस्थात्’ इति इत्त्वं तु न । 'त्यकनश्च' इत्युक्तेः । कर्मणिघटोऽठच् ॥ सप्तम्यन्तात्कर्मन्शब्दात् घट इत्यर्थे अठच्स्यादित्यर्थः । घटशब्दस्य कलशपर्यायत्वभ्रमं वारयति । कर्मणि घटते इति ।। व्याप्रियते इत्यर्थः । तथाचात्र घटशब्दो यौगिकः घटमाने वर्तते इति भावः । कर्मठ इति ।। अठचि “नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाभावादिका देशाभाव इति भावः । तदस्य ॥ प्रथमान्तेभ्यस्तारकादिभ्यः अस्य तत्सञ्जातमित्यर्थे इतच् स्यादित्यर्थः । तारकितन्नभ इति ।। सञ्जातनक्षत्रमित्यर्थः । आकृतिगणोऽयमिति ॥ तेन पुष्पितो वृक्षः फलित इत्यादि । सङ्ग्रहः प्रमाणे॥ अनुवर्तते इति ।। ततश्च अस्य प्रमेयस्य