पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३८

पुटमेतत् सुपुष्टितम्
८६४
पाञ्चमिक
सिद्धान्तकौमुदीसहिता

'तदस्य' इत्यनुवर्तते । ऊरू प्रमाणमस्य ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम् । *्’प्रमाणे ल:’ (वा ३१२८) । शमः । दिष्टिः । वितस्ति । द्विगोर्नित्यम्’ (वा ३१२९) । द्वौ शमौ प्रमाणमस्य द्विशमम् । ’ प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्चापि संशये मात्रज्वक्तव्यः' (वा ३१३३) । शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् । “ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम्' (वा ३१३४) । तावदेव तावद्द्वयसम् । तावन्मात्रम् ।

१८३९ । पुरुषहस्तिभ्यामण्च । (५-२-३८)

पुरुषः प्रमाणमस्य पौरुषम्-पुरुषद्वयसम् । हास्तिनम्-हस्तिद्वयसम् ।

१८४० । यत्तदेतेभ्यः परिमाणे वतुप् । ५-२-३९)

यत्परिमाणमस्य यावान्। तावान् । एतावान् ।


तत्प्रमाणमित्यर्थे प्रमाणे विद्यमानात्प्रथमान्तात् द्वयसच्, दघ्नच्, मात्रच्, एते प्रत्ययाः स्युः । “प्रमाणवानिदमर्थोऽत्रप्रत्ययार्थः” इति भाष्ये स्पष्टम् । तत्र “प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम” इति भाष्ये स्पष्टम् । प्रमाणमिह परिच्छेदकमात्रम्। तत्र मात्रच् प्रस्थमात्रमूरुमात्रमित्यादि इति कैयटः । वस्तुतस्तु “यत्तदेतेभ्यः” इति सूत्रभाष्यस्वरसादायामपरिच्छेदकमेवात्र प्रमाणम्’ इति शब्देन्दुशेखरे विस्तरः । प्रमाणे ल इति ॥ लुको ल इति पूर्वाचार्यशास्रसिद्धा संज्ञा । प्रमाणे वर्तमानाद्विहितस्य द्वयसजादेर्लुग्वक्तव्य इत्यर्थः । शमो दिष्टिर्वितस्तिरिति ॥ शमः प्रमाणमस्येत्यादि विग्रहः । शमादयः अनूर्ध्वमानविशेषाः । तेभ्यो मात्रचो लुक् । इतरयोरसम्भवात् । अत्र “आयामस्तु प्रमाणं स्यात्' इत्येव गृह्यते । एवञ्च ऊरुद्वयसमित्यादौ न लुक् । द्विगोर्नित्यमिति ॥ प्रमाणान्ताद्द्विगोः परस्य द्वयसजादेर्नित्यं लुक् स्यादित्यर्थः । प्रमाणान्तस्य द्विगोः प्रमाणवृत्तित्वात् सामर्थ्यादिह तदन्तविधिः । पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति । द्विगोः प्रमाणत्वाभावात् । द्विशममिति ॥ तद्धितार्थे द्विगुः । ततो मात्रचः अनेन लुक् । “विकल्पस्याप्रकृतत्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचः लुगर्थः । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि सः मात्रच् न लुप्येत ” इति भाष्ये स्पष्टम् । प्रमाणेति ।। प्रमाणवाचिनः परिमाणवाचिनः सङ्ख्यावचिनश्च संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एव गृह्यते । “आयामस्तु प्रमाणं स्यात्” इति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शाममात्रमित्यादि ।। शमस्यान्न वेत्यादि विग्रहः । वत्वन्तादिति ।। वार्तिकमिदम् । पुरुषहस्तिभ्यामण् च ।। उक्तविषये इति शेषः । चात् द्वयसजादयस्त्रयः । यत्तदेतेभ्यः ॥ तदस्येत्यनुवर्तते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिनः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद्, एभ्यः वतुप् स्यादित्यर्थः । यावानिति ॥ यच्छब्दाद्वतुप् । उपावितौ । 'आ सर्वनाम्रः’ इत्यात्त्वम्, सुः, 'उगिदचाम्