पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/३९

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८६५
बालमनोरमा ।

१८४१ । किमिम्भ्यां वो घः । (५-२-४०)

आभ्यां वतुप् स्याद्वस्य च घः: । कियान् । इयान्

१८४२ । किमः सङ्खयापरिमाणे डति च । (५-२-४१)

चाद्वतुप् । तस्य च वस्य घः स्यात् । का सङ्खया एषां ते कति कियन्तः । क्षेपेतु न । का सङ्ख्या एषां दशानाम् ।

१८४३ । सङ्ख्याया अवयवे तयप् । (५-२-४२)

पञ्च अवयवाः अस्य पञ्चतयं दारु ।

१८४४ । द्वित्रिभ्यां तयस्यायज्वा । (५-२-४३)


इति नुम् , ’अत्वसन्तस्य’ इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ । एवं तावान्, एतावान् । किमिदंभ्यां वो घः ॥ तदस्य इति, परिमाणे वतुबिति चानुवर्तते । तदाह । आभ्यांवतुप् स्यादिति ॥ आभ्यां प्रथमान्ताभ्याम् अस्य तत्परिमाणमित्यर्थे वतुप् स्यादित्यर्थः । वस्य च घ इति । वकारस्य घकार इत्यर्थः । कियानिति ॥ किं परिमाणमस्येति विग्रहः । किंशब्दात् वतुप् । उपावितौ । वकारस्य घकारः इयादेशः, किम् इयत् इति स्थिते ’इदङ्किमोरीश्की' इति इदमः की भावे 'यस्येति च' इति ईकारलोपे कियत्शब्दात्सौ ‘उगिदचाम्' इति नुमि “अत्वसन्तस्य ’ इति दीर्घे, हल्ङ्यादिसंयोगान्तलोपाविति भाव । इयानिति ।। इदंशब्दात् वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थिते ’इदङ्किमोरीश्की इति शित्वादिदमः ईकारे सर्वादेशे “यस्येति च' इति ईकारस्य लोपे इत् इति प्रत्ययमात्रं शिष्यते । ततः सौ नुमादि पूर्ववत् । किमः सङ्ख्या ।। तदस्येत्यनुवर्तते । सङ्ख्यायाः परिमाणं परिच्छेदः । किशब्दः प्रश्रे वर्तते । का अस्य सङ्ख्येत्येवं सङ्ख्यापरिच्छेदविषयकप्रश्रे विद्यमानात् किंशब्दात्प्रथमान्तात् अस्य यर्थे डतिप्रत्ययश्च स्यादित्यर्थः । का सङ्ख्याएषांते कतीति ॥ का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति । अस्येत्यनेन एकत्वस्य अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात् । ज्ञाते च प्रश्नासम्भवात् । का सङ्ख्या एषामिति तु प्रश्नः सम्भवति । तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात् । उक्तञ्च भाष्ये ‘न ह्येकयोः प्रश्नोऽस्ति' इति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दः “डति च' इति षट्संज्ञकत्वात् ‘षड्भ्यो लुक्' इति जश्शसोर्लुक् । कियन्त इति ॥ कियानितिवत्प्रक्रिया । बहुवचनं विशेषः । सङ्ख्यापरिमाणे इत्युक्तेःकिमः क्षेपार्थकत्वे डतिर्न भवति । का सङ्ख्या एषां दशानामिति ॥ दशावरा परिषदित्यत्र ब्राह्मणब्रुवाणां मेळने इदं वाक्यं प्रवृतम् । सङ्ख्येयद्वारा सङ्ख्यायाः कुत्सात्र गम्यते । अव्राताना ममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानाम्परिषत्त्वं न विद्यते” इति स्मरणात् । सङ्ख्यायाः ॥ तदस्येत्यनुवर्तते । द्वित्र्यादिसङ्ख्याका अवयवाः अस्यावयविनः इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तात् अस्यावयविनः इत्यर्थे तयबित्यर्थः । पञ्चतयमिति ॥

                                                  P 109