पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/४

पुटमेतत् सुपुष्टितम्
८३०
[आर्हिय
सिद्धान्तकौमुदीसहिता

सिद्धान्तकौमुदीसहिता [आहय वंशादिभ्यः परो यो भारशव्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिका द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षु भारिक । 'भाराध्वंशादिभ्य:’ इत्यस्य व्याख्यान्तरं “भारभूतेभ्यो वंशादिभ्य इति । भारभूतान्वंशान्हरति वांशिक । ऐक्षुकः ।

१७१७ । वस्त्रद्रव्याभ्यां ठन्कनौ । (५-१-५१)

यथासङ्खयं स्त । वस्त्रं हरति वहत्यावहति वा वस्त्रिकः । द्रव्यकः ।

१७१८ । सम्भवत्यवहरति पचति । (५-१-५२ )

प्रस्थं सम्भवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति (उपसंहरति) पचति वेत्यर्थः । “तत्पचतीति द्रोणादण्च' (वा ३०३८) । चाठ्ठञ् । द्रोणं पचतीति द्रौणी-द्रौणिकी ।

१७१९ । आढकाचितपात्रात्खोऽन्यतरस्याम् । (५-१-५३)


वैयधिकरण्येनान्वयः । स च व्युत्क्रमः । व्याख्यानात् । तदाह । वंशादिभ्यः पर इति ॥ द्वितीयान्तादित्यनन्तरं हरति वहति आवहतीत्यर्थे यथाविहितं प्रत्ययः स्यादिति शेषः । हरणं कथञ्चिद्देशान्तरप्रापणं चौर्यं वा । शकटादिना प्रापण वहनम् । स्वसमीपं प्रापणमावहनं उत्पादनं वा । वांशभारिक इति ॥ ‘आर्हात्' इति ठक् । अत्र पञ्चम्यन्तयाव्युत्क्रमेण वैयधिकरण्येन चान्वये प्रमाणाभावादाह। भाराद्वंशादिभ्य इत्यस्य व्याख्यान्तरमिति ॥ भारात्परेभ्यो वंशादिभ्य इत्यर्थभ्रमव्यावृत्तये व्याख्यान्तरं विशदयति । भारभूतेभ्यो वंशा दिभ्य इतीति ॥ वंशादिशब्दानाम्भारभूतत्वन्तु भारभूतवंशादिवृत्तेर्बोध्यम् । अस्मिन्व्या ख्याने भारादित्येकवचनमार्षम् । यद्वा प्रत्ययेकान्वयाभिप्रायम् । वस्तुतो भारभूता य वंशादयः तद्वाचिभ्य इति यावत् । वस्नद्रव्याभ्याम् ॥ तद्धरति बहत्यावहतीत्यनुवर्तते इत्यभिप्रेत्य आह । वस्नं हरतीत्यादि । सम्भवत्यवहरति ॥ तदिति द्वितीयान्तमनुवर्तते । द्वितीयान्तात्सम्भवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः । प्रास्थिक इति ॥ ‘आर्हात् इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वतीयष्ठञ् । ननु सम्भवतीत्यस्य उपपद्यते इत्यर्थकत्वा दकर्मकत्वात्प्रस्थं सम्भवतीति कथं द्वितीयेत्यत आह । समावेशयतीत्यर्थ इति ॥ उपसर्गवशादिति भावः । प्रास्थिकी ब्राह्मणीति ॥ ठञन्तत्वात् डीबिति भावः । अपह रतीत्येतद्व्द्याचष्टे । उपसंहरतीति । किञ्चिदूनमपि यथा प्रस्थपरिमितं भवति तथा मिमीते इत्यर्थः । तत् पचवतीति द्रोणादण् चेति । वार्तिकमिदम् । द्वितीयान्ताद्रोणशब्दात् पञ्चतीत्यर्थे अणु च स्यादित्यर्थः । पचतिग्रहणं सम्भवत्यवहरतिनिवृत्त्यर्थम् । चाट्ठञिति ॥ आर्हात्’ इति ठग्विधौ परिमाणपर्युदासात् ठगभावे प्राग्वतेष्ठञेव चकारादनुकृष्यते इति भावः। द्रौणीति ॥ अणन्तत्वात् डीप्। द्रौणिकीति ॥ ठञन्तत्वात् ङीप् । आढकाचित ॥ आढक, आचित, पात्र, एभ्यो द्वितीयान्तेभ्यः सम्भवत्यवहरतिपचतीत्यर्थेषु खो वा स्यादित्यर्थः ।