पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/४५

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८७१
बालमनोरमा ।

१८६७ उदराट्ठगाद्यूने । (५-२-६७)

अविजिगीषौ ठक् स्यात्कनोऽपवादः । बुभुक्षयात्यन्तपीडितः उदरे प्रसितः औदरिकः । “आद्यूने' किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ।

१८६८ । सस्येन परिजातः । (५-२-६८)

कन् स्वर्यते न तु ठक् । सस्यशब्दो गुणवाची न तु धान्यवाची । शस्येन' इति पाठान्तरम् । सस्येन गुणेन परिजातः सम्बद्धः सस्यकः साधुः ।

१८६९ । अंशं हारी । (५-२-६९)

‘हारी' इत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ।

१८७० ।। तन्त्रादचिरापहृते । (५-२-७०)

तन्त्रकः पटः | प्रत्यग्र इत्यर्थः ।

१८७१ । ब्राह्मणकोष्णिके संज्ञायाम् । (५-२-७१)


सप्तम्यन्तेभ्यः प्रसितेऽर्थे कन् स्यादित्यर्थः । प्रसितः उत्सुकः । तद्रचनायामिति ॥ वेण्यादि ग्रथने इत्यर्थः । अत्रैवार्थे अस्य साधुवम् । व्याख्यानादिति भावः । उदराट्ठगाद्यूने ॥ तत्र प्रसित इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दात् आद्यूने प्रसितेऽर्थे ठगित्यर्थः इत्यभिप्रेत्य आद्यूनशब्दं विवृण्वन्नाह । अविजिगीषाविति ॥ ’ दिवोऽविजिगीषायाम्' इत्यविजिगी षायामेव दिवो निष्ठानत्वविधानादिति भावः । बुभुक्षयेति ॥ क्षुधा पीडित एव सन् उदर परिमार्जने प्रसितः, नतु मल्लवद्युद्धे विजिगीषेयत्यर्थः । उदरक इति ।। मल्ल इति शेषः । स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति । तदाह । उदरपरिमार्जनादौ प्रसक्त इति।। विजिगीषयेति शेषः । सस्येन परिजातः॥ तृतीयान्तात् सस्यशब्दात्परिजात इत्यर्थे कन् स्यादित्यर्थः । सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह । कन स्वर्यते नतु ठगिति ॥ स्वरितत्वप्रतिज्ञायान्तु पाणिनीयपरम्परैव प्रमाणम्। सस्यशब्दो गुणवाचीति ॥ व्याख्यानमेवात्र शरणम् । शस्येनेतीति ॥ ‘शंसु स्तुतौ' इति धातौ कमेणि यति शस्य शब्दः स्तुत्यपर्यायः । स्तुत्यश्च गुण एवेति भावः । परिजात इत्यस्य विवरणं सम्बद्ध इति । अंशं हारी ॥ द्वितीयान्तात् अंशशब्दात् हारीत्यर्थे कन् स्यादित्यर्थः । ननु कृद्योगषष्ठी प्रसङ्गादंशमिति कथं द्वितीयेत्यत आह । आवश्यके णिनिरिति ।। ‘आवश्यकाधमर्ण्ययोः इत्यनेनेति शेषः । षष्ठी नेति ।। “अकेनोः' इति तन्निषेधादिति भावः । तन्त्रादचिरापहृते ॥ तन्त्रशब्दात् पञ्चम्यन्तात् अचिरापहृतेऽर्थे कनित्यर्थः । तन्त्रं तन्तुवायशलाका । अचिरेण कालेन अपहृतः अचिरापहृतः । “कालाः परिमाणिना' इति समासः । प्रत्यग्र इति ॥ नूतन इत्यर्थः । ब्राह्मणकोष्णिके ॥ आयुधजीविविषयब्राह्मणशब्दात् प्रथमान्तात् अस्मिन्नित्यर्थे