पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/४६

पुटमेतत् सुपुष्टितम्
८७२
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

आयुधजीविनो ब्राह्मणाः यस्मिन्देशे सः ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अल्पान्नशब्दस्योष्णादेशो निपात्यते ।

१८७२ । शीतोष्णाभ्यां कारिणि । (५-२-७२ )

शीतं करोतीति शीतकोऽलसः । उष्णं करोतीत्युष्णकः शीघ्रकारी ।

१८७३ । अधिकम् । (५-२-७३)

अध्यारूढशब्दात्कनुत्तरपदलोपश्च ।

१८७४ । अनुकाभिकाभीकः कमिता । (५-२-७४)

अन्वभिभ्यां कन्नभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । अभि कामयते अभिकः-अभीक: ।

१८७५ । पार्श्वेनान्विच्छति । (५-२-७५)

अनृजुरुपायः पार्श्वम्, तेनान्विच्छति पार्श्वकः ।

१८७६ । अयःशूलदण्डाजिनाभ्यां ठक्ठञौ । (५-२-७६)

तीक्ष्ण: उपायोऽय:शूलं, तेनान्विच्छति आय:शूलिकः । साहसिकः । दण्डाजिनं दम्भः । तेनान्विच्छति दाण्डाजिनिकः ।


कन् निपात्यते इत्यर्थः । अल्पान्नशब्दस्येति ॥ अल्पान्नशब्दात् प्रथमान्तात् अस्मिन्नित्यर्थे कन्प्रत्ययः प्रकृतेरुष्णादेशश्च निपात्यते इत्यर्थः । शीतोष्णाभ्याङ्कारिणि ॥ शीतमिव शीतं मन्दमित्यर्थः । उष्णमिव उष्णम् शीघ्रमित्यर्थ । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्याङ्कन् स्यादित्यर्थः । “यः आशु कर्तव्यानर्थान् चिरेण करोति सः शीतक उच्यते, यस्तु अनाशु कर्तव्यान् आश्वेव करोति सः उष्णक उच्यते” इति भाष्ये । संज्ञायामित्यननुवृत्तेरयमर्थो लभ्यते” इति कैयटः । तदाह । शीतकोऽलस इति ॥ उष्णकः शीघ्रकारीति च ॥ अधिकम् ॥ अध्यारूढशब्दादिति ॥ व्युत्पादनमात्रमिदम् । शुद्धरूढ एवायमिति बोध्यम् । अनुकाभिकः ॥ अनुक, अभिक, अभीक, एषां समाहारद्वन्द्वः । सौत्रम्पुंत्स्त्वम् । पार्श्वेनान्विच्छति ।। तृतीयान्तात्पार्श्वशब्दात् अन्विच्छतीत्यर्थे संज्ञायां कन् स्यादित्यर्थः । अन्वेषणं मार्गणम् । पार्श्वमिव पार्श्वम् । अनृजुरुपायः । ऋजूपायेन अन्वेष्टव्यान् अर्थान् यः अनृजुना उपायेना न्विच्छति सः पार्श्वक इति भाष्यम् । तदाह । अनृजुरित्यादि ।। अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ॥ अयःशूल, दण्डजिन आभ्यान्तृतीयान्ताभ्यां अन्विच्छतीत्यर्थे सज्ञायाण्ठक्ठञौ स्त इत्यर्थः । अयःशूलमिव अयःशूलम् । साहसमित्यर्थः । “यो मृदुनो पायेन अन्वेष्टव्यानर्थान् तीक्ष्णोपायेनान्विच्छति सः आयःशूलिकः” इति भाष्यम् । तदाह । तीक्ष्णोपाय इत्यादि ॥ दण्डाजिनं दम्भ इति ॥ दम्भार्थत्वाद्दण्डाजिनशब्दो दम्भे