पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८३१
बालमनोरमा ।

प्रकरणम्]

पक्षे ठञ् । आढकं सम्भवति अवहरति पचति वा आढकीना-आढ- किकी । अचितीना-आचितिकी । पात्रीणा-पात्रिकी ।

१७२० । द्विगोः ष्ठंश्च । (५-१-५४)

आढकाचितपात्रात्' इत्येव । आढकाद्यन्ताद्विगोः सम्भवत्यादि- ष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्य 'अध्यर्ध —' (सू १६९३) इति लुक् । षित्वान्ङीष् । व्द्याढकिकी-व्द्याढकीना । “द्विगोः' (सू ४७९) इति ङीप् । व्द्याढकी । व्द्याचितिकी-व्द्याचितीना । “अपरिमाण-'(सू ४८०) इति ङीब्निषेधात् व्याचिता । द्विपात्रिकी—द्विपात्रीणा-द्विपात्री ।

१७२१ ॥ कुलिजाल्लुक्खौ च । (५-१-५५)

कुलिजान्ताद्विगोः सम्भवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात्ष्ठंश्च । लुगभावे ठञः श्रवणम्। द्विकुलिजी-द्विकुलिजीना। द्विकुलिजिकी-द्वैकुलिजिकी।

१७२२ । सोऽस्यांशवस्त्रभृतयः । (५-१-५६)


पक्षे ठञिति ॥ 'आर्हात्' इत्यतः परिमाणपर्युदासान्न ठगिति भावः । द्विगोष्ठंश्च ॥ ष्ठन्खाविति ॥ चकारेण खस्यानुकर्षादिति भावः । वा स्त इति ॥ अन्यतरस्या- मित्यनुवृत्तरिति भावः । पक्षे ठञिति ॥ 'आर्हात्' इत्यत्र परिमाणपर्युदासान्न ठगिति भावः । षित्त्वात् ङीष् । व्द्याढकिकीति॥ द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे 'तद्धितार्थ' इति द्विगुः, ष्ठन् , षित्त्वात् ङीषित्यर्थः । अत्र 'न य्वाभ्याम्' इत्यैज् न । वृद्धिनिषेधसन्नियोगशिष्टत्वात् ञ्णित्किदभावेन वृद्धेरप्रसक्तेः। व्द्यढकीनेति ॥ खे रूपम् । 'द्विगो:' इति ङीप् । व्द्याढ कीति ॥ ठञि 'अध्यर्ध' इति तस्य लुक । 'द्विगोः' इति ङीबित्यर्थः। प्रत्ययलक्षणमाश्रित्य ठञन्तलक्षणङीप् तु नेति 'अपरिमाणबिस्त' इत्यत्रोक्तम्। 'अध्यर्ध' इति लुक् ठञ एव, नतु ठन्खयोरपि विधिसामर्थ्यात् । द्वयाचितिकी ॥ द्वयाचितिकीनेति ॥ष्टनि खे च रूपम् । अथ व्द्याचितशब्दात् ठञो लुकि 'द्विगोः' इति डीपमाशङ्कय आह। अपरिमाणेति ङीब्निषेधादिति ॥

द्विपात्रिकीत्यादि ॥ कुलिजाल्लुक्खौ च ॥ अन्यतरस्यामित्यनुवृत्तिमभिप्रेत्य

आह । लुक्खौ वा स्त इति ॥ 'आर्हात्' इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वहतीयस्य ठञः 'अध्यर्ध' इति नित्यं लुकि प्राप्ते लुको विकल्पविधिः । चात् ष्ठंश्चेति ॥ तथाच ठञो लुक् खश्च ष्ठंश्चेति त्रितयं विकल्पते। तत्र ष्ठनः खस्य ठञः लुकश्चाभावे ठञः श्रवणम्पर्यवस्यति । तदाह । लुगभावे ठनःश्रवणमिति॥ द्विकुलिजीति॥ ठञो लुकि रूपम् । 'द्विगाः' इति ङीप् । द्विकुलिजीनेति ॥ खे रूपम् । द्विकुलिजिकीति ॥ ष्टनि रूपम् । द्वैकुलिजि- कीति॥ठञो लुगभावे रूपम् । परिमाणान्तस्येत्यत्र असंज्ञाशाणकुलिजानामित्युक्तेर्नोत्तरपदवृद्धिः। सोऽस्यांश ॥ स इति प्रत्येकमंशादिष्वन्वेति । सोऽस्यांशः, तदस्य वसनम् , सास्या भृतिः,