पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५६

पुटमेतत् सुपुष्टितम्
८८२
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

१९१३ । दन्त उन्नत उरच् । (५-२-१०६)

उन्नता दन्ताः सन्त्यस्य दन्तुरः ।

१९१४ । ऊषसुषिमुष्कमधो रः । (५-२-१०७)

ऊषरः । सुषिरः । मुष्कोऽण्डः मुष्करः । मधु माधुर्यम्-मधुरः । रप्र करणे “खमुखकुञ्जेभ्य उपसङ्ख्यानम्' (वा ३१९८) । खरः । मुखरः । कुञ्जो हस्तिहनुः । कुञ्जरः । “नगपांसुपाण्डुभ्यश्च' (वा ३१९९) । नगरम् । पांसुरः । पाण्डुरः । पाण्डरशब्दस्त्वव्युत्पन्न एव । ’कच्छ्वा ह्रस्वत्वं च' (वा ३२००) । कच्छुरः ।

१९१५ । द्युद्रुभ्यां मः । (५-२-१०८)

द्युमः । द्रुमः ।

१९१६ । केशाद्वोऽन्यतरस्याम् । (५-२-१०९)


हयवरट्’ इति सूत्रे “एका च सिकता तैलादाने असमर्था' इति भाष्ये प्रयोगात् सिकताशब्दः एकवचनान्तोऽप्यस्तीति लिङ्गानुशासने मूलकारो वक्ष्यति । दन्त उन्नत उरच् ॥ उन्नतविशेषणकाद्दन्तशब्दात् मत्वर्थे उरच् स्यादित्यर्थः । उन्नत इति प्रकृतिविशेषणम् । दन्त इति सप्तमी पञ्चम्यर्थे । ऊषसुषि ॥ ऊष, सुषि, मुष्क, मधु, एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । सौत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति ॥ ऊषः क्षारमृत्तिकाविशेषोऽस्यास्तीति विग्रहः । सुषिर इति ।। सुषिः बिलं अस्यास्तीति विग्रहः । मधुशब्दः क्षौद्रे द्रव्ये, माधुर्यात्मकरसविशेषे च गुणे वर्तते । तत्र रसविशेष वाचिन एवात्र ग्रहणमित्याह । मधु माधुर्यमिति ।। तथा भाष्यादिति भावः । अन्यथा मधुद्रव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्ण्यो वा । मुखरः शब्दं कुर्वन् । कुञ्जरो हस्ती । रूढशब्दा एते । नगपांस्विति ॥ वार्तिकमिदम् । नगरमिति जातिविशेषवाची । अत एव नगरीति ङीष् । पांसुर इति ॥ पांसुः अस्यास्तीति विग्रहः । पाण्डुरइति ॥ पाण्डुः शुक्लवर्णः, सः अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह । पाण्डरशब्दस्त्विति ॥ “हरिणः पाण्डरः पाण्डुः” इत्यमरः । कच्छ्वाइति ॥ वार्तिकमिदम् । कच्छूशब्दाद्रप्रत्ययः, प्रकृतेर्ह्रस्वश्च अन्तादेश इत्यर्थः । कच्छुरः शुनां रोगविशेषः । द्युद्रुभ्यां मः ॥ ‘दिव उत्' इति कृतोत्वस्य दिव्शब्दस्य द्यु इति निर्देशः । दिष्शब्दात् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः । द्युमः द्रुम इति ॥ रूढशब्दावेतौ । केशाद्वोऽन्यतरस्याम् ॥ मत्वर्थे इति शेषः । नन्विहान्यतरस्याङ्ग्रहणं व्यर्थम् । समर्थानामिति वाग्रहणेनैव वाक्यस्य सिद्धत्वात् । नच महाविभाषायाः अपवादेन मुक्ते औत्सर्गिकस्याप्रवृत्तेः “पारेमध्ये षष्ठ्या वा' इत्युक्तत्वादिह मतुपोऽप्रवृत्यापत्तौ तत्प्रवृत्त्यर्थमन्यतरस्याङ्ग्रहणमिति वाच्यम्। प्राणिस्थादिति