१९७२ । इदमस्थमुः । (५-३-२४)
थालोऽपवादः । 'एतदो वाच्यः' (वा ३२३५) । अनेन एतेन वा प्रकारेण इत्थम् ।
१९७३ । किमश्च । (५-३-२५)
केन प्रकारेण कथम् ।
इति तद्धिते प्राग्दिशीयप्रकरणम् ।
अथ तद्धिते प्रागिवीयप्रकरणम् ।
१९७४ । दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः । (५-३-२७)
सप्तम्याद्यन्तेभ्यो दिशि रूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिप्रत्ययः स्यात् ।
१९७५ ॥ पूर्वाधरावराणामसिपुरधवश्चैषाम् । (५-३-३९)
गृह्यते सर्वथेत्यादौ तदप्रतीतेः । तेन प्रकारेणेत्यनन्तरं विशिष्ट इति शेषः । 'यथा हरिः तथा हरः’ इत्यादौ यत्प्रकारवान् हरिः तत्प्रकारवान् हरः इति बोधे सति हरिसदृशो हर इति फलति । तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः । इदमस्थमुः ॥ इदंशब्दात्प्रकारवृत्तेः थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उचारणार्थः । मकारस्य उपदेशे अन्त्यत्वाभावान्नेत्त्वम् । यद्यपि 'न विभक्तौ' इति निषेधादेव मस्येत्वं न भवति । तथापि तदनित्यत्वज्ञापनार्थं मकारो वारणमित्याहुः । इत्थमिति ॥ ‘एतेतौ रथोः’ इति प्रकृतेरिदमः इदादेशः । एतच्छब्दात् थमुप्रत्यये तु एतद् इति योगविभागात् इदादेशः । किमश्च ॥ प्रकारवृत्तेस्थमुरिति शेषः । कथमिति ॥ 'किमः कः’ इति कादेशः ॥
इति तद्धिते प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः ।
अथ प्रागिवीयप्रकरणमारभ्यते-- दिक्छब्देभ्यः ॥ सप्तम्याद्यन्तेभ्य इति ॥ सप्तमीपञ्चमीप्रथमान्तेभ्य इत्यर्थः । रूढेभ्य इति ॥ शब्दग्रहणलभ्यमिदम् । अस्तातिप्रत्यये इकार उच्चारणार्थः। तकारान्तः प्रत्ययः । 'सङ्ख्याया विधार्थे धा’ इतिसूत्रपर्यन्तमिदं सूत्रमस्तातिवर्जमनुवर्तते । अत्र विभक्तीनां दिगादीनाञ्च न यथासङ्ख्यं, व्याख्यानात् । पूर्वाधरावराणाम् ॥