पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७८

पुटमेतत् सुपुष्टितम्
९०४
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

२००४ । किमेत्तिङव्ययधादाम्वद्रव्यप्रकर्षे । (५-४-११)

किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किन्तमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ।

२००५ । द्विवचनविभज्योपपदे तरबीयसुनौ । (५-३-५७)

द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरः-लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः-पटीयांसः ।


इत्यादि सिद्धम् । किमेत्तिङव्यय ॥ आमु इति छेदः । उकार उच्चारणार्थः । किम्, एत्, तिङ् अव्यय, एषाच्चतुर्णौ द्वन्द्वः । ‘किमेत्तिङव्ययप्रकृतिको घः’ इति मध्यपदलोपी समासः । फलितमाह । किम एदन्तादित्यादिना ।। एभ्य इत्यर्थः । किन्तमामिति ॥ अत्यन्तस्वार्थिकोऽयं तमप् नत्वतिशायने । एषामतिशयेनाढ्य इतिवदेषामतिशयेन क इति विग्रहस्यासम्भवात् । जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम्। किंशब्दश्च न जात्याद्यन्यतमप्रवृत्तिनिमित्तकः । एवञ्चात्रातिशयस्याप्रतीतेर्द्रव्यप्रकर्षो दूरापास्त इति भावः । प्राह्णेतमामिति ॥ प्राह्णः पूर्वाह्णः । “प्राह्णापराह्णमध्याह्नाः त्रिसन्ध्यम्” इत्यमरः । अतिशयिते पूर्वाह्णे इत्यर्थः । पूर्वावयवगतप्रकर्षादह्णः प्रकर्षो बोध्यः । अत्र अहर्न द्रव्यम् । सूर्योदयादारभ्य सूर्यास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः । पचतितमामिति ॥ अतिशयिता पाकक्रियेत्यर्थः । तिङन्तेषु क्रियाविशेष्यकबोधस्यैव "प्रशंसायां रूपप्” इति सूत्रभाष्ये प्रपञ्चितत्वात् । अतोऽत्र क्रियाया एव प्रकर्षों नतु द्रव्यस्येति भावः । उच्चैस्तमामिति ॥ आशंसतीत्यध्याहार्यम् । अतिशयेन उच्चैराशंसनादिक्रियेत्यर्थः । अत्रापि क्रियाया एव प्रकर्षो नतु द्रव्यस्य । उचैस्तमस्तरुरिति ॥ अतिशयेन उच्चैस्तरुरित्यर्थः । अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाम्नेत्यर्थः । किन्तमामित्यादौ ‘यस्येति च' इति लोपं परत्वात् बाधित्वा ह्रस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन् “निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः’ इति सूत्रभाष्ये प्रपञ्चितम् । द्विवचन ॥ उच्यतेऽनेनेति वचनम् । द्वयोरर्थयोर्वचनं द्विवचनम् । द्व्यर्थप्रतिपादकमिति यावत् । न द्विवचनसंज्ञकमिह गृह्यते व्याख्यानात् । विभक्तव्यं विभज्यम् । 'ऋहलोः' इति ण्यतम्बाधित्वा निपातनाद्यत् । द्विवचनं च विभज्यञ्चेति समाहारद्वन्द्वः । द्विवचनविभज्यञ्च तदुपपदञ्चेति कर्मधारयः । द्व्यर्थप्रतिपादके विभक्तव्यविषयके च उपपदे सतीति फलितम्। प्रातिपदिकादिति तिङ इति चानुवर्तते । सुबन्तात्तद्धितात्पत्तिरिति सिद्धान्तात्सुबन्तत्वम्प्रातिपदिकविशेषणं लभ्यते । फलितमाह। द्वयोरेकस्येत्यादिना ॥ द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्टस्वार्थवृत्तेः विभागप्रयोजकीभूतधर्मवाच-