पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/८३

पुटमेतत् सुपुष्टितम्
प्रकरणम्]
९०९
बालमनोरमा ।

२०२१ । प्रशंसायां रूपप् । (५-३-६६)

सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ।

२०२२ । ईषदसमाप्तौ कल्पब्देश्यदेशीयरः । (५-३-६७)

ईषदूनो विद्वान्विद्वत्कल्पः। यशस्कल्पम् । यजुष्कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ।

२०२३ । विभाषा सुपो बहुच्पुरस्तात्तु । (५-३-६८)

ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव, न तु परतः । ईषदूनः पटुः बहुपटुः । पटुकल्पः । 'सुपः' किम् । यजतिकल्पम् ।


भावः । एवं स्रजीयानिति ॥ त्वचिष्ठ इति ।। त्वग्वच्छब्दादिष्ठनि मतुपो लुकि तन्निमित्तपदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः । एवं त्वचीयान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीय सुनौ। प्रशंसायां रूपप् ॥ सुबन्तात्तिङन्ताच्चेति ॥ शेषपूरणमिदम् । ‘तिङश्च' इत्यनुवृत्तन्, प्रातिपदिकादिति च । 'धकाल' इत्यादिलिङ्गात् सुबन्तादिति लभ्यते इति भावः । प्रशंसाविशिष्ट स्वार्थे वर्तमानात् तिङन्तात्सुबन्ताच्च रूपविति फलितम् । पचतिरूपमिति ॥ प्रशस्ता पाकक्रियेत्यर्थः । अत्र भाष्ये “क्रियाप्रधानमाख्यातं द्रव्यप्रधानन्नाम” इति सिद्धान्तितम् । पचतोरूपं पचन्तिरूपमित्यत्र च न द्विवचनबहुवचने । तिडैव द्वित्वबहुत्वयोरुक्तत्वात् । एकवचनन्तु उत्सर्गतः करिष्यते, नपुंसकत्वन्तु लोकात्” इत्यपि भाष्ये स्पष्टम् । ईषदसमाप्तौ ।। ईषदसमाप्तिविशिष्टेऽर्थे विद्यमानात् सुबन्तात् स्वार्थे कल्पप्, देश्य, देशीयर्, एते प्रत्ययाः स्युरित्यर्थः । विद्वत्कल्प इति ॥ ईषन्न्यूनवैदुष्यवानित्यर्थः । यशस्कल्पमिति ॥ असम्पूर्णं यश इत्यर्थः । “सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति ।। असम्पूर्णं यजुरित्यर्थः । 'इणष्ष' इति षत्वम् । विद्वद्देश्य इति ।। असम्पूर्णवैदुष्यवानित्यर्थः । एवं विद्वद्देशीयः । अत्र सर्वत्र ‘स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते’ इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति ॥ असम्पूर्णा पाकक्रियेत्यर्थः ।पचतिरूपमितिवल्लिङ्गवचननिर्वाहः । एवं वृषभकल्पः इयङ्गौरित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम्। क्वचित् ‘स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते’ इति वचनात् गुडकल्पा द्राक्षेत्यादौ प्रकृतिलिङ्गातिक्रमः। एतत्सर्वमत्रैव भाष्ये स्पष्टम्। विभाषा ॥ ईषद्समाप्तावित्यनुवर्तते । तदाह। ईषदस्माप्तिविशिष्ट इतेि ॥ प्रागेवेति ।। सूत्रे तुशब्दो अवधारणे इति भावः । बहुपटुरिति ।। पटुशब्दात् सुबन्तात् प्राक् बहुचि कृते प्रातिपदिकावयवत्वात् सुपो लुकि समुदायात् पुनः सुबुत्पत्ति । न च तद्धितान्तत्वाभावात् समासत्वाभावाच्च पूर्वोत्पन्नसुब्विशिष्टस्य प्रातिपदिकत्वाभावात् कथमिह लुगिति वाच्यम् । 'अर्थवत्' इत्यनेन तस्य प्रातिपदिकत्वसत्त्वात् । पटुरित्यस्य पूर्वोत्पन्नसुप्प्रत्ययान्तत्वेऽपि बहुपटुरिति समुदायस्य प्रत्ययान्तत्वाभावात् । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नचैवं सति ‘कृत्तद्धित’ इत्यत्र समासग्रहणं व्यर्थमिति वाच्यम् । पदघटितसङ्घातस्य चेत्