पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/100

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
मध्यमाधिकारे ग्रहानयनाध्यायः

दशन्तितो याततिथिप्रमाणैः सौरैस्तु सौरा दिवसाः समेताः ।
यतोऽधिशेषोत्थदिनाधिकास्ते त्यक्ततं च तस्मादधिमासशेषम् ।
तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् ।
त्यक्तेन तेनोदयकालिकः स्यात् तिथ्यन्तकाले द्युगुणोऽन्यथाऽतः । इति ॥१-३॥

 इदानी ग्रहानयनमाह ।

द्युचरचक्रहतो दिनसञ्चयः क्वहहृतो भगणादि फलं ग्रहः ।
दशशिरः पुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः ॥ ४ ॥

 वा० भा०-अहर्गणे भगणगुणे क्वहते मध्यमो ग्रहो भवति । स च लडूायां मध्यमे रवी क्षितिजासन्ने कदाचिदूध्र्वस्थे कदाचिदधःस्थिते भवतीति ज्ञेयम् । तत्कारणं गोले कथितं व्याख्यातन्ट । ४ ।।

 वा० वा०-इदानों ग्रहानयनमाह। द्युचरचक्रहत इति ।

 कल्पकुदिनैः कल्पग्रहभगणाः लभ्यन्ते तदेष्टकुदिनैः किमिति ग्रहो भवति । केचिल्लङ्कायां मध्याह्नमध्यरात्रास्तमनकालेषु ग्रहगतिप्रारम्भमिछन्ति तन्मतनिवारणाय पूर्वक्षितिजस्थ इति । अग्रे चोदयान्तरकर्म वक्ष्यति, तस्मात् सन्निधिग इत्युक्तम् । देशान्तरचरसंस्कारयोर्वक्ष्यमाणत्वाल्लङ्कापूर्वक्षितिजसन्निधिग इति भास्वत्फलसंस्कारस्य वक्ष्यमाणत्वान्मध्यमभास्कर इत्युक्तम् ॥ ४ ॥

 इदानों ज्ञातेऽर्केऽवमशेषाच्चन्द्रमाह ॥

कोट्याहतैरङ्कृतेन्दुविश्वै-१३१४९०००००००:न्यूनाहशेषे विहते लवाद्यम्।
रविघ्नतिथ्याढ्यमनेन युक्तो रविर्विधुः स्याद्विधुरूनितोऽर्कः ॥ ५ ॥

 वा० भा०-अस्योपपत्तिः । चन्द्राकयोरन्तरभार्गद्वदिशभिरेकका तिथिर्भवति। अतस्तिथयो द्वादशगुणास्तयोरन्तरभागा भवन्ति ॥ ते यदि रवौ क्षिप्यन्ते तदा शशी स्यात् ॥ यदि शशिनः शोध्यन्ते तदाऽर्कः स्यात् ॥ इति युक्तमुक्तम् । किन्त्वेवं तिथ्यन्ते भवति ॥ अथ चन्द्र औदयिकः साध्यः ॥ तत्र तिथ्यन्ताकर्षोदययोर्मध्येऽवमशेषं वर्तते । तच्च सावनम् । तस्य सावनत्वं गोले प्रतिपादितम् । तच्चानुपातेन चान्द्र' कार्यम् ॥ यदि कल्पकुदिनैः कल्पञ्चान्द्रदिनानि लभ्यन्ते तदाऽवमशेषान्तःपातिभिः कुदिनैः किमिति । पूर्वमवमशेषस्य चान्द्रदिनानि भागहार इदानीं तानि गुणकारः । तुल्यत्वात् तयोगुणकभाजकयोर्नाशे कृते कुदिनानि भागहारः ॥ · फलं चन्द्रदिनात्मकं भवति। तद्द्वादशगुणितमंशात्मक भवति। अतो द्वादशभि: कुदिनानामपवतें कृते खाभ्रबाणगिरिरामखत्रिगोशक्रविश्वमितो भागहार उत्पन्नः ॥ तत्र लाघवार्थमाद्येषु सप्तसु स्थानेषु शून्यान्येव कृत्वा भागहारः पठितः । यतस्तथा कृत एकाऽपि विकला नान्तरं भवति । अतस्तैश्च भागैर्युतोऽर्कः शशी स्यादित्युपपन्नम् ॥ ५ ॥

 वा० वा०-अथावमशेषज्ञाने रविचन्द्रयोरन्यतरज्ञाने च तदन्यज्ञानमाहकोटद्याहतैरिति।

 रव्युदयकालिकरवौ रविचन्द्रान्तरयोगेन विधुर्भवति । तत्र रविचन्द्रान्तरज्ञानम् । तद्यथा-पूर्वानीतदशन्तिाद्यस्यां तिथौ रव्युदयकालिकोऽकों ज्ञातोऽस्ति तत्ति-