पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/101

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
सिद्धान्तशिरोमणी ग्रहगणिते

थ्यवधिका या गतितिथयस्ता द्वादशगुणा रविचन्द्रान्तरांशाः भवन्ति । यतो *विरविचन्द्रलवा द्वादशहृता गततिथय इति । परन्तु तद्रविचन्द्रान्तरं गततिथ्यन्तावधि जातम् । अपेक्षितञ्च वर्त्तमानतिथ्युदयावधि । तिथ्यन्तसूर्योदययोर्मध्येऽवमशेषं तत्वहर्गणानयने ज्ञातमेवास्ति । तिथ्यन्तकालिकोदयकालिकयोरहर्गणयो रन्तरमिति तदवमशेषं सावनम् । अवमशेषतो रविचन्द्रान्तरांशज्ञानार्थमनुपातः । यद्येकेन सावनेन रविचन्द्रगत्यन्तरांशा एते १२॥११॥२७॥ लभ्यन्ते तदाऽवमशेषान्तः पातिना किमिति गत्यन्तरांशैरवमशेषं गुणनीयम् । शेषस्य कल्पञ्चान्द्राः हरः ॥ गुणहरौ गुणेनापवत्र्य शिष्यक्लेशो मा भूदित्याचार्येणाद्येषु सप्तस्थानेषु शून्यान्येव गृहीत्वा हरः पाठपठित इति सर्वं निरवद्यम् ॥५॥

 इदानीमधिमासावमशेषाभ्यां चन्द्राकानयनमाह

कोट्याहतैर्यभ्दवभै-२७११००००००० रवाप्तं न्यूनाहशेषे विहते कलाद्यम्
तत् स्याद्धनाख्यं तरणेर्विधोस्तत् त्रिभूहतं स्वेषुगुणांशयुक् स्वम् ॥ ६ ॥
चैत्रादियातास्तिथयः पृथक्स्था विश्वैर्हताः सूर्यविधूं लवाद्यौ ।
तौ चाधिशेषाच्छशिमासलब्ध्या हीनी युती स्वस्वधनाहुयाभ्याम् ॥७॥

 वा० भा०- अवमशेषाद्भवभैः कोटिगुणैर्भक्ताद्यल्लब्धं कलाद्य' तद्रवेर्धनसंज्ञं भवति ॥ तदेव फलं त्रयोदशगुणं स्वकीयेन पञ्चत्रिशदंशेन युतं विधोर्धनसंज्ञं भवति ॥ अथ चैत्रादिगतास्तिथयो द्विः स्थाप्याः ॥ द्वितीयस्थाने विश्व-१३ गुणास्तावंशात्मकौ रविचन्द्रौ भवतः ॥ परमधिमासशेषाच्छशिमासभक्ताद्यत् फलं तेन द्वावप्प्यूनीकृतौ । स्वस्वफलेन धनाख्येन युक्तौ कृतौ ।

 अत्रोपपत्तिः । रविवर्षान्ताद्यावन्तोऽर्कदिवसा गतास्तावन्तोऽर्कभागाः किल भवन्ति ॥ ते कियन्त इति न ज्ञायन्ते । रविवर्षान्तोऽपि न ज्ञायते । अतश्चैत्रादेर्गतास्तिथयो यावन्तस्तावन्त एव सौराहाः कल्पिताः ॥ यथाऽहर्गणानयने स एव भागात्मको रविः । असौ पृथग् विश्वगुणः कृतः ॥ यतस्ताभिरेव द्वादशगुणाभिस्तिथिभिर्युक्तः कर्तव्यः । तिथौ तिथौ हि रविचन्द्रान्तरं द्वादश भागाः ॥ अथ चैत्रादिगततिथितुल्याः सौराहाः कल्पितास्तेऽधिमासशेषसंभूतैश्चन्द्रदिनैरधिका जाताः ॥ यतो मध्यमशेषसंक्रान्तिकालो रव्यब्दान्तः । तस्य चैत्रादेश्चान्तरं तिथ्यात्मकमधिमासशेषम् । यथा गोले कथितम् ।


१. रविचन्द्र’ग पु० । २. जाता ग पु० ।
३. अत्र श्रीपतिः ।
कल्पाधिमासगुणितादवमावशेषात् क्ष्माहोद्धृतात् फलयुतं ह्यधिभासशेषम् ।
मासादिकं फलमतः शशिवासरैः स्यात् क्ष्माहैर्हृताच्च दिवसाद्यवमावशेषात् ।

सि० शे० मध्य० २१ श्लो०
 

चैत्रादितो विगतमासदिनैर्युतं तत् कृत्वा दिनाद्यथ पृथग्गुणितश्च विश्वै:।
मासादिना विरहिते विहिते क्रमेण यद्वा दिवाकरतुषारकरौ भवेताम् ।

सि० शे० मध्य० २२ श्लो०