"दशग्रतः सङ्क्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् ॥ "
इति । तत् तावत् सौरचान्द्रान्तरमधिको जातम् । तथा कल्पितचन्द्रदिनसंबन्धि यत् सौरचान्द्रान्तरं तदप्यधिकं जातम् ॥ तदप्यधिमासशेषसंभूतम् ॥ एतदुक्तं भवति ॥ अधिमासशेषात् त्रिशद्गुणात् स्वच्छेदेन हृताद्य लभ्यन्ते ते चान्द्राहाः ॥ तेषां चन्द्राणां यावन्तः सौरा भवन्ति तैरधिकोऽर्की जातः । अतस्ते शोध्याः तेषां चान्द्राणां सौरकरणायानुपातः । यदि कल्पचान्द्राहैि: कल्पसौराहा लभ्यन्ते तदाऽधिमासशेषस्थे: क्रिमिति पूर्वमधिमासशेषस्य त्रिंशद्गुणस्य सौराहा भागहार इति स्थितम् । इदानी गुणहारस्तुल्यत्वात् तयोर्नाशे कृतेऽधिमासशेषस्य चान्द्राहा भागहारः । ततः पुनर्भाज्यभाजकयोस्त्रिशताऽपवर्तने कृतेऽधिमासशेषस्य चान्द्रमासा भागहारः । फलं सौराहाः । त एव भगणाः । तैरूनः कल्पितोऽकों निरन्तरः स्यात् । परं तिथ्यन्ते । असावौदयिकः कार्यः ॥ तिथ्यन्ताकर्षोदययोर्मध्येऽवमशेषम् ॥ तच्च सावनम् ॥ तेन चन्द्राकविौदयिकौ कायों । तत्रानुपात: यदि चान्द्राहतुल्येन परमावशेषेण रविगतिर्लभ्यते तदेष्टेनानेन किमिति । एवमवमशेष रविगत्या गुणनीयं चान्द्राहैड्र्भाज्यम्। अत्र गुणकभाजकयो रविगत्याऽपवतें कृते भागहारे किञ्चित् प्रक्षिप्य कोटच्याहतभवभतुल्यः सुखार्थं भागहारः कृतः ॥ स्वल्पान्तरत्वात् । तेन भागहारेणावमशेषे भक्ते याः क · T लभ्यन्ते ताः कला रवौ क्षेप्या इति धनसंज्ञाः ॥ अथ चन्द्रस्य परमेऽश्वमशेषे चन्द्रगतितुल्याः कला भवन्ति । अतो रविगत्या चन्द्रगतौ हृतायां स्वपञ्चत्रिशदंशाधिकास्त्रयोदश १३३ लभ्यन्ते ॥ अतो रवेर्धनफलं त्रयोदशगुणं स्वपञ्चत्रिशदंशाधिकतं चन्द्रस्य धनं भवतीत्युपपन्नम् । एवं स्वस्वफलेनाधिकौ तिथ्यन्तकालिकौ भवत इति सर्वं निरवद्यम् ॥ ६-७ ॥
वा० वा०-इदानीं चन्द्राकानयनमधिमासावमशेषाभ्यामाह कोट्याहतैर्यद्रुवभैरिति ।
यस्मिन् चैत्रशुक्लादितो वर्त्तमानमासि यस्यां वर्त्तमानतिथौ सूर्योदये रविचन्द्रौ कर्तुमिष्टौ तद्दिवससाधिताहर्गणादधिमासावमशेषे ज्ञातव्ये ।
'नन्वधिशेषमिदमवमशेषञ्च कयोरन्तरं किं जातीयमिति चेदुच्यते । कल्पसौराहगणिस्य खण्डत्रयम् । एक तावत्कल्पादे: सममीप्सितकालनिकष्टपतितगताधिमासान्तावधि । निकटपतिताधिमासान्तादिष्टसौरवर्षावधि द्वितीयम्। तृतीयन्तु चैत्रादिगतमासगततिथ्यवधिका ये चान्द्रास्तत्तुल्यसौराहात्मकम् । इदं तृतीयखण्डं सौरवर्षादितश्चैत्रादिमासेष्टतिथ्यवधि ये वास्तवाः सौराहास्तेषामज्ञातत्वेनेदृशमङ्गीकृतम् । एवं खण्डत्रययोग: सौराहर्गण इति।
कथितकल्पगतोऽर्कसमागणो रविगुणो गतमाससमन्वितः ।
खदहनैर्गुणितस्तिथिसंयुत इत्यनेन कृतः ।
अस्य सौराहगणिस्य चान्द्रीकरणमनुपातेन । कल्पसौरे: कल्पाधिमासास्तदेष्टसौरैः किमिति लब्धं सावयवं गताधिमासादि । इदं दिनीकृत्य सौराहर्गणे योज्यं चान्द्रद्युगणो भवति । यद्वा गताधिमासानां सावयवानामपि खण्डत्रयं कृतम् । एकं लब्धाधिमासानामेव ये दिवसास्तत्तुल्यम् । द्वितीयमिष्टसौरवर्षादिजशुद्धिदिनतुल्यम् ।
१. मिवमवम क ख पु० । २. सांतटसौ ग पु० ।
सिo–૮