पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/103

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
सिद्धान्तशिरोमणौ ग्रहगणिते

तृतीयन्तु सौरवर्षादित इष्टचान्द्रमासगततिथितुल्यसौरावधि यदधिशेषं तत्तुल्यम् । प्रथमसौराहगणखण्डे प्रथमं लब्धाधिमासदिवसतुल्यं योजितं जाताश्चान्द्राः । द्वितीयखण्डे सौरवर्षादिजा' शुद्धियोज्या तत्रापि चान्द्राः भवन्ति ।

 तृतीयेऽपि सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहजनितं योजितम्। त्रयाणां योगे चान्द्रद्युगणो भवति । परन्तु सौरवर्षादितश्चैत्रादिगतश्चान्द्रतुल्यसौराहाः यस्मिन् काले भवन्ति तत्कालीनः । अपेक्षितस्तु चैत्रादित एव चैत्रादिगतश्चान्द्रान्तावधि । अनयोरन्तरमधिशेषं पूर्वमनुपातसिद्धम् । इदं शोध्यम् । पूर्वं पृथक् पृथक् खण्डत्रयेण योजनीयमधुना युगपदेव हेयमिति लब्धादिमासा एव दिनीकृत्य योज्या इत्युक्तम् । चैत्रादितश्चैत्रादिगतचान्द्रदिवसापर्यंन्तं ये कल्पादिगतचान्द्रास्तेषामथं च सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहावधि ये कल्पचान्द्रास्तेषामन्तरम् । इदं चान्द्रमेव तिथ्यात्मकम् । अतो वक्ष्यते गोले* ।

 सौरेभ्यः साधितास्ते चेदधिमासास्तदैन्दवाः' ।

 एवमहगणितः कल्पगतसाधने यश्चान्द्रगणाः समायाति स तु कल्पादिमारभ्य चैत्रादितश्चैत्रादिगतचान्द्रावधि ।

 तस्मादधिमासेषु साध्यमानेषु यदधिशेषं समायाति तत् सौरम् । यस्माच्चैत्रादिगतचान्द्रान्तावधि ये सौराः सौरवर्षादितश्चैत्रादिगतचान्द्रतुल्यसौराहावधि ये सौराश्च तेषामन्तरम् । अत एव वक्ष्यते ‘चेच्चान्द्रेभ्यस्तदा सौरा' इति । सौरेभ्योऽधिमाससाधनं चान्द्रीकरणार्थमेव करिष्यति ॥ एवमेवमेष्वपि योज्यम् । सौरवर्षादौ रविः शून्यम् । सौरवर्षादित इष्टकालावधि यावन्तः सौराहास्तावन्तोऽर्कभागाः स्युः । चैत्रादितश्चैत्रादिगतचान्द्रान्ते रविरपेक्षितः । सौरवर्षादित इष्टकालावधि ये सौरास्तेषामज्ञातत्वेन चैत्रादिगतचान्द्रा यावन्तस्तावन्त एव सौरवर्षादितो रवेरंशा इति कल्पितम्। तत्राधिशेष शोध्यं पूर्वन्यायेन । परन्तु सौरमधिशेषमेव कल्पितसौरेभ्यो हातुमुचितं वास्तवसौरज्ञानार्थम् । यत्तु सिद्धमधिशेषं तत् तिथ्यात्मकमिति निरूपितम् ।

 अधिशेषस्य *सौरीकरणायानुपातः । कल्पचान्द्र: कल्पसौरास्तदेष्टाधिशेषेण त्रिशद्गुणितेन कल्पसौराहभक्तैन किमिति सौरतुल्ययोर्गुणहरयोर्नाशे त्रिशता चान्द्रेषु भक्तषु चान्द्रमासा एव भवन्ति । तस्मादधिशेषाच्छशिमासलब्ध्या हीनाश्चैत्रादिगततिथयो रव्यंशा इष्टतिथ्यन्ते भवन्ति । अस्मिन् रवौ शुध्यूनचैत्रादिगततिथयो द्वादशगुणा योज्याः । स च सौरवर्षादेश्चन्द्रो भवति । । अत्र सौरवर्षादिजश्चन्द्रो योज्यः । द्वादशगुणिता शुद्धिः सौरवर्षादौ लवाद्यश्चन्द्रो भवति । तिथ्यन्तसूर्योदययोर्मध्येऽवमशेषम् । तच्चान्द्रगणसिद्धत्वात् सावनम् ।


१ जाद्वियों ग पु० । ३. सि० शि० गो० म० ग० १३ श्लोo ।
२. मथे ग पु० । ४. सौरि गपु० ।