विवर्जितो विकर्तनो गृहादिको गृहादिकाः । |
वा० भा०-अहग्णाद्ग्रहस्य कल्पसावनदिनैर्गुणिता त्खाभ्रबाणगिरिरामखत्रिगोशष्क्रवि श्वेविहुताद्यतू फलं राश्यादि तेन राश्यादिना राश्यादिको रविरूनोऽभीष्टो प्रहःस्यात् । अस्मादानयनप्रकाराद्बुधेरन्यदपि प्रकारान्तरं विचिन्त्यम्।
अत्रोपपत्तिः ॥ भगणैरूना भभ्रमा ग्रहसावनदिवसा भवन्ति ॥ तः सावनैरूनास्ते भभ्रमा गृहभगणा भवन्ति । अतोऽहर्गणाद्ग्रहवदनुपातेन गतभभ्रमान् ग्रहसावनक्विसाँश्वानीय तैः सावनेस्ते भभ्रमा वजिता यदि क्रियन्ते तदा भगणादिको ग्रहो भवतीत्युपायो दृष्टः । अथ च यो भगणाद्यो। रविरागतः सोऽहर्गणतुल्यैर्भगणैर्युतो यावत् क्रियते तावद्गतभभ्रमा भवन्ति । यतः कुदिनानां रविः भगणानाञ्च योगे भभ्रमाः । अत्र भगणानां प्रयोजनाभावाद्राश्यादिरेव रविर्भभ्रमावयवीभूतो गृहीतः । एवं ग्रहगतसावनानयनेऽपि । तत्र ग्रहकल्पसावनैरहर्गणे। गुणिते कुदिनैहते भगणादिक किल फल भवति। तद्द्वादशगुणित राश्यादिक स्यात्। अत: कुविनानि द्वादशभिरपवर्तितानि भागहारः कृतः ॥ लब्धराशिषु द्वादशतष्टेषु भगणा लभ्यन्ते ते प्रयोजनाभावात् त्याज्याः ॥ अत उत्तम्। 'आसराशिभिविवजितो विकर्तन इत्यादि जातं सर्वमुपपन्नम् ॥ ८-९ ॥
वा० वा०-अथ रव्यहर्गणाभ्यां ग्रहानयनमाह अर्क सावनदिवागणो हत इति। रविभगणसावनयोगे' भभ्रमा इत्युक्तम् । “भभ्रमास्तु भगर्णविवजिता यस्य तस्य कुदिनानि तानि च' इति कल्पे ग्रहसावनान्यपि वेद्यानि । तत इष्टग्रहेष्टसावनज्ञानं त्रैराशिकेन । कल्परविसावनै: कल्पग्रहसावनास्तदेष्टार्कसावनगणेन किमिति । एतानि ग्रहेष्टसावनानीष्टभभ्रमेभ्यः शोध्यानि । तत्रेष्टभभ्रमो नामेष्ठभगणाद्यरवेरिष्टरविसावनस्य च योगः इष्टराश्याद्यो रविस्तु भभ्रमावयवः ।
तस्मादिष्टभभ्रमाणां पञ्चावयवाः । तत्र पूर्वोक्तानुपातेन ग्रहेष्टसावनेषु लब्धेषु यच्छेषं तद्द्वादशगुणं रविकल्पसावनहृतं सद्ये राशयस्ते रविराशिभ्य एव शोध्याः । अत्र राश्यादिग्रहाणामेव प्रयोजनादनुपातेन सिद्धो यो ग्रहकल्पसावनरवीष्टसावनघातः स एव द्वादशगुणः कार्यः रविकल्पसावनैर्भाज्यः । तत्र गुणहरौ गुणेनापवत्र्यं हर एव खाभ्रवाणेति पठितः । लब्धं राश्यादि चतुर्धा । तद्राश्याद्यरवेः शोधितं जाताः राश्यादिकाः ग्रहाः ॥ ८-९ ॥
इवानीमानयनप्रकारान्तराणामुपपत्तिमाह ।
यथायथाऽधिमासकावमेन्दुमासपूर्वकाः | |
१. योगो क ख ग पु० ।