त एव सूर्यसावनद्युपिण्डतोऽनुपातजाः । |
वा० भा०-अत्राधिमासावमेन्दुमासपूर्वका इति पूर्वशब्दोपादानादन्येऽप्यभीष्टा राशयो यथायथा परस्परं युतोनिताः सन्त इष्टग्रहभगणसमा भवन्तीति पूर्व संप्रधार्य तानेव राशीन् भग णान् प्रकल्प्याहर्गणादनुपातेन फलानि साध्यानि । तेषा फलाना तथातथा योगे वियोगे च कृते ग्रहः स्यादिति ॥ तद्यथा ॥
'इन्दुमण्डलगुणेन्दुसंगुणब्रध्नचक्रविवरेऽधिमासकाः ।'
इति चन्द्रभगणानां त्रयोदशगुणार्कभगणनां चान्तरे यद्यधिमासा भवन्ति तदा ऋग्रोदशगुणार्कभगणाधिमासयोगे चन्द्रभगणाः स्युरित्यर्थाज्जातम् । अतोऽहर्गणादधिमासग्रहमानीय त्रयोदशगुणोऽर्कस्तेनाधिकश्चन्द्रः. स्यादित्येवमादीनि प्रकारान्तरशतान्युत्पद्यन्ते ।। १०-११ ॥
वा० वा०-अत्राध्यायान्तमेकादवृत्तनि भाष्ये स्पष्टानि ॥१०-२०॥
इति श्रीकृष्णदैवज्ञात्मजनृसिहकृतौ ग्रहामयनाध्यायः ॥
इदानीमस्योदाहरणभूतानि प्रकारान्तराणि दर्शयन्नाह ।
द्विचक्रयोगजओ ग्रहो वियोगजेन युग्वियुक् । |
वा० भा०-अत्राद्यानयनस्योपपतिः सङ्क्रमगणितेन । द्वितीयस्यातिसुगमा। १२-१३।।
पुनः प्रकारान्तरेणाह ।
केन्द्रोच्चयोश्चश्चलयोर्वियोगे योगेऽथवा स्यान्मृदुनोः प्रसाध्यः । |
वा० भा०-अत्रोपपतिः । शीघ्रोच्चाद् ग्रहे शोधिते शीघ्रकेन्दं भवति । शीघ्रकेन्द्रे शोधिते ग्रहो भवतीति किमाश्चर्यम् । मन्दोच्चोनो ग्रहो मन्दकेन्द्रम् । तत् केन्द्रं मन्दोच्चेन युतं ग्रहो भवतीति किं चित्रम् । यदि सिद्धग्रहस्य युगभगणैः सिद्धग्रहो लभ्यते तदा साध्यभगणैः किमिति फलं साध्यग्रहः स्यादित्युपपन्नम् ।। १४ ॥
अहर्गणान्मध्यमग्रहमानीयेदानी मध्यमग्रहावहर्गणमाह ।
साग्रात् सचक्राच्च खगात् क्वहध्नात् तत्कल्पचक्राप्तमहर्गणः स्यान्। |
वा० भा०-ग्रहस्य भगणराशिभागकलाविकला अन्ते विकलाशेषत्र्च कुदिनैः संगुण्य स्वच्छे देन विभज्योपर्युपरि निक्षिपेत् । तद्यथा । भगणादिग्रहे विकलाशेषावधि कल्पकुदिनगुणे विकलाशेष स्थाने कुदिनैविभज्य विकलास्थाने फल प्रक्षिप्य तत्र षष्ट्रया ६० विभज्य कलास्थाने निक्षिप्यवं भगणान्तं यावत् ॥ तत्र कल्पभगणैर्हृतेऽहर्गणः स्यात् ॥
अत्रोपपत्तिविलोमगणितेन । तथा निरग्रचक्रादपि ग्रहात् तथा केवलादग्रादपि तथा शेषयोः शेषाणां वा योगादहर्गणानयनमग्रत इति प्रश्नाध्याये कुट्टकविधिना वक्ष्ये ॥ १५ ॥