पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/108

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
मध्यमाधिकारे कक्षाध्याय

क्ल्यादौ ग्रहाः ॥

io so go go o रतु० चंतु० चपाo

88 88 ११ R Y 以 २९ २७ २९, २८ २८ १७ 以 R RYK وابة YR ゞ気 Yፉሂ २९ १२ o २९ ३६ &Y き× ३६ ४६ 双○

इति ग्रहानयनाध्यायः ॥

अथ कक्षाप्रकारेण ग्रहानयनाध्यायः ।

 तत्र खकक्षाँ तावदाह।

कोटिघ्नैर्नखनन्दषट्कनखभूभूभूद्भुजज्ञेन्दुभि-१८७१२०६९२०००००००० ज्योंतिश्शास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः' ।

तद् ब्रह्माण्डकष्टाहसंपुष्टतटे केचिजगुर्वेष्टनं
केचिद् प्रोचुरदृश्यदृश्यकगिरेिं पौराणिकाः सूरय:२ ॥ १ ॥
करतलकलितामलवदमल सकलं विदन्ति ये गोलम् ।
दिनकरकरनिकरनिहततमसो नभसः स परिधिरुदितस्तैः ।। २ ।।

 वा० भा—एभियोजनैस्तुल्यां गणकाः खकक्षामाकाशपरिधि वदन्ति । तत्र कथमनन्तस्याकाशस्येयत्ता वक्तुं शक्यत इत्याशङ्कयाऽहर्पतिद्युतियुजो नभसः परिधेरिदं मानं वदन्ति । अत एव पौराणिका गणकास्ते ब्रह्माण्डपरिधि वदन्ति । केचिल्लोकालोक वदन्ति । यतस्तदन्तर्वर्तिन एवार्करश्मयः । एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः । प्रमाणशून्यत्वात् । करतलकलितसकलब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति ॥ १-२ ॥


१. अत्र ब्रह्मगुप्सः । ‘अम्बरयोजनपरिधिः शशिभगणाः शून्यखखजिनाग्निगुणाः ।।'

.         ब्रा० स्फु० सि० २१ अ० ११ श्लो०

तथा च श्रीपतिः ।

‘द्वयङ्कर्तुखेनागधृतिप्रमाणा कक्षाम्बरस्यार्बुदयोजनघ्नी ।।' सि० शे० मध्य० ६२ श्लो० ।। चतुर्वेदाचायोंऽपि ।

“द्विच्छिद्रषट्काम्बरनेत्रचन्द्रशैलाष्टरूपाणि गुणानि कोटया ।
व्योम्नः सधाम्नः परिधिर्दशघ्नैः कल्पे ग्रहाणां स च योजनाध्वा ।।'

२. अत्र श्रीपतिः

'हिरण्यगर्भाण्डकष्टाहसंपुष्टप्रवेष्टनं तच्च बभाषिरे बुधाः ।
अदृश्यदृश्यं च गिरि पुरातना जगुः खकक्षामिति गोलवादिनः ।।'