अत्रोपपत्तिः । दिनगतियोजनैरहर्गणे गुणिते गतयोजनानि भवन्तीति सुगमम् । अत्र सुखार्थं गोऽक्षधृतीन्दुभिः ११८५९संपूर्णैरहर्गणो गुणित । सोऽधिको जातः । यदधिकं तच्छोध्यम् । तस्याधिकस्य ज्ञानार्थमुपायः । परमोऽहर्गणः कुदिनतुल्यः । तेन गुणकेन गुण्यः । एवं गोऽक्षधृतीन्दुनिघ्नः सन् खकक्षातोऽधिको भवति । तस्मात् खकक्षां विशोध्य शेषेणानुपातः । यदि कुदिनतुल्येनाहर्गणेनैतावदधिकं भवति तदेष्टेनाहर्गणेन किमिति । अत्र कुदिनानां तस्य शेषस्य च पञ्चपञ्चयुगवेदैरयुतगुणितै-४४५५०००० रपवर्ते कृते सति शेषस्थाने क्वक्षिनवाङ्का उत्पन्नाः । कुदिनस्थाने नन्देन्दुवेदेषुहुताशाः । एवं त्रैराशिकेन यल्लभ्यते तेन स्थूलगतिगुणितेऽहर्गणे वजिते गतयोजनानि भवन्ति ॥ सर्वेषां ग्रहाणां तान्येव । गतेस्तुल्यत्वात् । अथ ग्रहार्थमनुपातः । यदि कक्षातुल्यैर्गतयोजनैरेको भगणस्तदैभिः किमिति ॥ फलं गaभगणाद्याः सर्वे ग्रहा भवन्तीत्युपपन्नम्। ७-७है।
इदानीं विशेषमाह।
ग्रहस्य कक्षैव हि तुङ्गपातयोः पृथक् च कल्प्याऽत्र तदीयसिद्धये ॥८॥ |
वा० भा०-अत्रोच्चस्य पातस्य च या कक्ष[ऽऽगच्छति सा तयोरानयनाथंमेव कल्प्या । अन्यथा या ग्रहस्य कक्षा सैव तयोरपि । यतो ग्रहकक्षाया उच्चप्रदेशस्योच्चव्यपदेशः । यत्र च विमण्डलेन सह संपातस्तस्य प्रदेशस्य पातसंज्ञेति गोले सम्यक् प्रतिपादितमस्ति । तथा बुधशुक्रयोरत्र ये अर्ककक्षातुल्यकक्षे अागच्छतस्ते तयोरानयनार्थमेव । किन्तु तयोर्ये चलकक्षे तत्रैव तौ च भ्रमतः । परमर्कगत्या । एतदुक्ततं भवति । भूमध्यादकं प्रति नीतं सूत्रं यत्र ज्ञचलकक्षायां लगति तत्र-बुधो यत्र शुक्लकक्षा लगति तत्र शुक्रो भ्रमतीत्यर्थः ॥ ७३--& ॥
इति कक्षाप्रकारेण ग्रहानयनाध्यायः ।
अथ प्रत्यब्दशुद्धिः ।
तत्रादौ सावनदिनाद्यमाह ।
अधोऽधख्रिधा कल्पयाताब्दवृन्दात् कराभ्यां कृतैः पावकैः ४ सडुणाच्च । |
१. अत्र वापूदेवः ।
‘'समास्त्रिनिध्न्यः खभुजङ्गभक्ता स्वदिग्लवोनाः सहिता गताब्दैः ।
चतुविभक्ताश्च भवेद्दिनाद्यं तदब्दयुग्भास्करतोऽब्दपः स्यात् ॥