पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/113

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा० भा०-स्पष्टार्थम्।

 अत्रोपपत्तिः । एकस्मिन् रविवर्षे सावनाहाः प्राक् प्रतिपादिताः । तेभ्यः पञ्चषष्टश्यधिकं शतत्रयं ३६५ प्रोह्य शेषं दिनस्थाने पूर्णं पञ्चदश नाड्यस्त्रिशत् पलानि तथा सार्धानि द्वाविंशतिविपलानि ० ॥ १५ ॥ ३० ॥ २२ ॥ ३० एतदष्टभिः सर्वाणतं जातम् ४ । अतोऽनुपातः । यद्यष्टभिर्वषैरेतावदिनाद्यं तदा कल्पगतैः किमिति ॥ फलं दिनाद्यम् । तदनष्टं संस्थाप्यम् । ततो गताब्दैर्युतं सदब्दपतिः स्यादिति यदुक्तं तदतः । यतः पञ्चषष्टयधिकशतत्रये ससभिर्भक्त एकोऽवशिष्यते । अत एकगुणाब्दसंख्या तस्मिन् दिनाद्ये निक्षिसा । तस्मिन् ससतष्टेऽकद्योऽब्दपतिः ॥ यतो यस्मिन् वारेऽब्दादिः सोऽब्दपतिः स्यादित्युपपन्नम् ॥ १ ।।

 वा० वा०-प्रत्यब्दशुद्धया ग्रहानयनमारभते । तत्राब्दपानयनमाह अधोधस्त्रिधा इति । सौरवर्षान्ते यः सावयवो वारः सोऽब्दप इत्युच्यते । अहर्गणाद्ये अानीयेते ।

 'मासाब्ददिनसंख्यात द्वित्रिध्नं रूपसंयुतम्।

 सप्तोद्धृतावशिष्टौ च विज्ञेयौ मासवर्षपौ ।

 इत्यादिना मासाब्दपती ती फलादेशायोपयुज्येते । अत्रानीयमानो यमब्दपः स तु वार्षिकग्रहानयनाद्युपयोगाय । मन्दादध: कक्षाक्रमेण कालहोरेशा उत्ताः सौरे। मन्दादधः क्रमेण चतुर्थाश्च वारा उक्ताः । कथमत्राब्दपो ज्ञातव्य इत्यत्राह भास्करादिति । कल्पादौ रविरेवाब्दपः। अत्राचायेंण वर्षशमासेशहोरेशा नोक्ता दिनेश उत्तस्तेनैव क्रमेणाब्दपो भविष्यतीति भाष्येऽभिहितं सावयवो वार इति ॥

 अत्रवासना-तत्रैकवर्षसावनेषु सप्ततिष्टेषु शेषं दिनाद्यम् १॥१५॥३०॥२२॥३०॥ सौरे ॥१॥१५॥३१॥२४॥ कल्पादित आनीयमाने बह्वन्तरं पतति । येन पक्षेण दृग्गणितैक्यं भवति स एव पक्षोऽङ्गीकार्यः । भवतु योऽपि कोप्यागमो *ग्रहगणिते इतिकर्त्तव्यतायामस्माभिः कौशलं दर्शयितव्यम् इति वदतो भाष्यकारस्य न कोऽपि दोषः । प्रकृतमनुरामः ॥१॥१५॥३०॥२२॥३०॥ अत्राऽनुपातः । एकेन वर्षेणेदं तदेष्टवर्षेः किमिति सावयेवनेष्टवर्षाणि गुणनीयानि । एवं क्रियमाणे शिष्याः क्लिश्येरन्निति *सुगमोपायः कृतः । अत्र कल्पितमिष्टम् ०॥१५॥३०॥२२॥३०॥ इष्टोऽनेन गुणेन निघ्नो गुण्य इति यावन्तोऽब्दास्तावन्तो वारा इत्युक्तम् ।

 अथेष्टघ्नगुण्ययुक्तास्ते कर्त्तव्याः । एकेन भाज्याः । अत्र सञ्चारः । यद्यनेन हरेणाऽ यं गुण ०॥१५॥३०॥२२॥३०॥ स्तदा वसुमितेन किमिति लब्धो वाराद्यो गुणः ॥२॥४॥३॥ अयं स्वरूपेणौव *खण्डत्रयात्मकः ।

 “'गुण्यस्त्वधोऽधो गुणखण्डतुल्यस्तैः ६ खण्डकैः सद्गुणितो युतः’ इति प्रकारेण ‘अधोऽधस्त्रिधा कल्पयाताब्दवृन्दात् कराभ्यां कृतैः पावकैः सगुणादित्युक्तम्' । भुजङ्गभीगे हृते दिनाद्य लभ्यते ॥ १ ॥


१.सूर्यसिद्धा०मध्यमा०५४श्लो०॥ २.गणित इति साधु पाठ: ।। ३.सुगमनोपाय इoग पु०

४. खंडययात्मक० ग पु० । ५लीला० गुणने २ सूत्रम् । ६. तै ख इ० क ख ग पु० ।