इवानों प्रकारान्तरेणाह।
निजाशीति-८० भागेन युक्त समाध' । |
वा० भा०-अत्र वर्षाणामधं निजेनाशीतिभागेन युक्तं षष्ट्या हृतं वर्षचतुर्थाशेन युक्तं सद्दिनाद्य वा।
अत्रोपपत्तिः ॥ पूर्वस्मिन् दिनाद्ये पञ्चदश घटिकाः स एकस्य दिनस्य चतुर्थाशः। यानि त्रिशत् पलानि तद् घटिकाया अर्धम् ३० । एतदनष्टमर्धघटिकाया अधस्तनेनावय वेन २२ सर्वाणतेन यावध्रियते तावदशीतिर्लभ्यते। अतो वर्षाध निजाशीतिभागेन युक्त घटिका भवन्ति ॥ तत्षष्ट्यंशो दिनानि । तानि पूर्वकथितवर्षचतुर्थाशेन युतानि दिनानि भवन्तीत्युपपन्नम् ॥ १३ ।।
वा० वा०-प्रकारान्तरेणाह निजाशीतिभागेनेति ।
अत्राब्दान्वितमिति सम्बध्यते। इदन्तु केवल दिनाद्यशब्देन व्यवहियते दिनाद्य त्रिनिघ्नमित्यादिवक्षमाणोपयोगाय । तत्रेदं दिनाद्यम् ॥l०॥१५॥३०॥२२॥३०) अस्यापि खण्डत्रयम् '[ ॥०॥१॥ द्वितीयम् ॥०॥०॥३०॥] तृतीयम् ॥०॥०॥०॥२२॥३०॥ घटिका तु दिनस्य षष्टद्यंशो भवति । तस्मात् पञ्चदशघटिकाः पञ्चदशदिनषष्टव्यंशाः ॥
समेन केनाप्यपवत्र्य हारभाज्यौ भजेद्वा सति संभवे तु'।
प्रकारेणानेन भागहारौं भागेनैवापवत्र्य जातो दिनचतुर्थाशः । 'अब्दाङ्घ्र युग्गिति' ॐ । त्रिशत्पलानि घटिकायास्त्रिशत् षष्ट्यंशाः । अत्राप्यपवत्र्तेन घटिकाद्धं जातम्। तृतीये तु*साद्धद्वाविंशत्यक्षराणि ॥
अत्र 'छेदघ्नरूपेषु लवा धनर्णमेकस्य भागा अधिकोनकाश्चेत् ।
इति पञ्चचत्वारिंशदक्षराणामर्द्धम् । अक्षरन्तु पलषष्ट्यंशः । एवं पञ्चचत्वारिशदर्द्धषष्ट्यंशा इति ।
'अंशा हति: छेदवधेन भत्ता लब्धं विभिन्न गुणने फल स्यादिति ।
इति जाताः पलस्य पश्चचत्वारिंशत्खा°कशाः । अत्र साद्धपलेन हरां’ शावपवत्र्य हरस्थाने जातमशीतिः । अंशस्थाने च
*छेदं लवं च परिवत्र्यं हरस्य शेषः कार्योऽथ भागहरणे गुणनाविधिश्च ।
१. कोष्ठान्तर्गतोंशो ग पु० नास्ति। २. समनेके इ० ग० पु० । लीला० भागहारे सूत्रम् ।
३. युदिति ग पु० । ४ द्वाशत्य इ० ग पु० ।
५. लीला० भिन्नगुणने सूत्रम् । ६. फलस्य ग पु० ॥
७. वाकाँशा इ० क ख ग पु० । ८. लीला० भिन्नभागहारे सूत्रमू ।