पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/119

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
सिद्धान्तशिरोमणी ग्रहगणिते

 सप्ततष्टानि जातं त्रयम् ३। गताधिमासगुणकीभूतास्त्रिशदपि सप्ततष्टाः शेषं द्वयम् । तस्मादयमर्थो निष्पन्नः ॥ द्विगुणगताधिमासेषु त्रिगुणवर्षाणि योज्यानि पञ्चगुणवर्षाणि शोध्यानि । तत्र द्विगुणगताधिमासेषु द्विगुणवर्षाण्येव शोध्यानीत्यागतम् । तत्रापि प्रथममेवान्तरं कृत्वा द्विगुणे क्रियमाणे तादृशमेव भवतीति गताब्दाधिमासान्तरं द्विघ्नमित्युक्तम् ॥ तत्राब्दानां बहुत्वाद्गताधिमासा एव तेभ्यः शोधिताः । तस्माद्विपरीतशोधनादृष्णमिदं शोधितम् । स्वषष्टयंशहीनाब्दखाड्रन्दुभाग इत्याद्यानीतक्षयाहा अपि शोध्यत्वेनर्णगताः । अस्वयोयोंग इति 'गताब्दाधिमासान्तरं द्विघ्नमाद्य क्षयाश्हैर्गतैरित्युक्तम् । पुनः सति संभवे सप्ततिष्टम् । द्विगुणगताब्दाः सावयवेषु द्विगुणगताधिमासेषु शोध्या इति शुद्धिर्धनगतैवास्ति । द्विगुणगताधिमासा एव विपरीतशोधनेन परमृणगता जाताः शुद्धिस्तु धनगतैव । तस्माद् ‘धनर्णयोरन्तरमेव योगः' इति विशुद्धञ्च शुद्धेरित्युक्तम् । पुनः सप्तभक्तावशिष्टोऽर्कपूर्वोऽब्दपो भवति ।  अथवान्यथोच्यते-दिनादिक्षयाहादिदिग्घ्नाब्दयोगे खरामहृते लब्धं गताधिमासा अवशिष्टं शुद्धिसंज्ञं भवतीति प्रागभिहितम् । तत्र दिनादिस्थानेऽब्दपो यदि गृह्यते तदाऽब्दपक्षयाहादिनवघ्नाब्दयोगः खरामैर्हृतो लब्धं गताधिमासाः भवन्ति । शेषञ्च शुद्धिरिति । यतो दिनाद्य वारेष्वब्दान्वितमब्दप इति । अतो विलोमेन त्रिंशद्गुणितगताधिमासाः शुद्धियुक्ता विधेयास्तेषु नवगुणगताब्दाः पूर्वानीतक्षयाहाद्य च शोध्यं सप्ततष्टेऽब्दपो भवति । तत्र गुणकावेव पूर्वं सप्ततष्टौ कृत्वा ताभ्यां गुणने द्विगुणागताधिमासाः जाताः ॥ नवसु सप्तोर्वरितेषु द्वयमेव गुणो भवतीति द्विगुणागताब्दाश्च भवन्ति । तयोरन्तरे क्रियमाणे पूर्ववत् सर्वमुत्पद्यते । एवं सर्वत्र वासनाभिरनेकाभिः शिष्याणां कौतूहलमुत्पादयन्त्यस्मद्विधाः । अत्रास्माभिर्ग्रन्थविस्तरभयान्न लिख्यते । ७ ।।

 इदानीमवमैविनाऽप्यवमशेषघटिका अाह ॥

यत् त्वधिमासकशेषकनाडीपूर्वमिदं रहितं विहितं सत् ।
आद्यदिनाद्यघटीभिरथैवं स्युः क्षयशेषभवा घटिका वा ।। ८ ॥

 वा० भा०-यदधिमासशेष तिथ्यात्मकं तस्याधो या घटिकास्ता आद्यदिनाद्यस्य घटीभिरूनाः सत्यः क्षयघटिका भवन्ति ॥ अत्र द्विधाब्द द्विरामैः खरामैश्च भक्ता इत्यादिना ये दिनाद्ये फले उत्पद्येते तन्निराकरणार्थमाद्यग्रहणम् ।

 अत्रोपपत्तिः सुगमा ॥ यतो दिनावमघटिकैक्येनाधिमासशेषस्य घटिकास्ता दिनघटिकोना अवमघटिकाः । यदाऽवमघटिकोनास्तदा दिनघटिकाः स्युरिति भावः ॥ ८ ॥

 वा० वा०-अथावमैविनाऽवमशेषघटिकानयनमाह।

 यत् त्वधिमासकशेषकेति। ८ ।

 इदानीं रव्यब्दान्तग्रहानयनमाह।

कल्पजचक्रोहतास्तु गताब्दाः कल्पसमाविष्हता भगणाद्याः ।
स्युर्भुवका दिनकृद्भगणान्ते पातमृदुच्चचलोच्चखगानाम् ॥ ९ ॥