वा० भा०-स्पष्टार्थमिदम् ।
अत्रोपपत्तिस्त्रैराशिकेन । यदि कल्पवर्ष: कल्पभगणा लभ्यन्ते तदा गर्त: किमिति फल रविमण्डलान्तिका ग्रहा भवन्ति ॥ ये तत्र ग्रहास्ते ध्रुवकाः कल्पिताः ॥ यदत्र पातमृदूच्चग्रहणं तत् तेषामतिमन्दगतित्वाद्वर्षगणेनैवानयनमुचितमिति सूचितम्। ९ ॥
वा० वा०-इदानीं रव्यब्दान्ते ग्रहानयनं कल्पजचक्रहता इति ॥ ९ ॥
इदानी चन्द्रध्रुवको प्रकारान्तरेणाह ।
यत्तु दिनाद्यधिशेषमिन्घ्नं १२ स्याद् ध्रुवकस्त्वथवा स लवाद्यः । |
वा० भा०-यदधिमासशेष तिथ्यात्मक तद्रविगुण भागात्मको विधुर्भवति।
अत्रोपपत्तिः सुगमा । यतो द्वादशगुणास्तिथयो रवीन्द्वोरन्तरभागाः स्युः ॥ तत्र रविः पूर्णम् । अतस्तादृगेव शशीत्युपपन्नम् ॥ १० ।।
वा० वा०-प्रकारान्तरेण चन्द्रध्रुवकमाह यदिति ।
यदूनाहनाडीविहीनं न कृतं तदधिशेषमेव शेषं स्पष्टम् ॥ १० ॥
इदानों कलिगतादाह।
कलेगंताब्दैरथ वा दिनाद्यं पूर्वं यदुक्ततं खलु तत् प्रसाध्यम् । |
वा० भा० - स्पष्टम् ॥ ११ ।
इदानीमहर्गणार्थ क्षेपदिनान्याह ।
स्वीयनखांशयुताः क्षयनाडयः क्षेपदिनानि दिवागणसिद्धयै ।
वा० भा०-पूर्वमानीता ये क्षयाहास्तेषामधो यन्नाडिकाद्य तत् स्वीर्यावशांशयुतं सद्दिनाद्यं कल्प्यम् ! या घटिकास्तानि दिनानि या विघटिकास्ता घटिकास्तासामप्यधो ये षष्टश्यंशास्तान पानीयपलानीति । किमर्थम् । दिवागणसिद्धचै अहर्गणसिद्धयर्थम् ।
अत्रोपपत्तिः । वक्ष्यमाणेऽहर्गणानयने यदवमानयनं तत्र चतुःषष्टिभागहारः कृतः ॥ यतश्चान्द्रहाणां चतुःषष्टश्चैकमवमं पतति ॥ अतो रव्यब्दान्ते यदवमशेषं तच्छुद्धयूनासु तिथिषु स्वीयकराभ्रतुरङ्ग-७०२ लवयुतासु सदृशच्छेदं कृत्वा क्षेप्यम् । ततश्चतु:षष्ट्या भागे गृहीते लब्धमवमानीत्युचितम् । तत्र रध्यव्र्दान्ते यदवमशेषं घटिकात्मकं पूर्वं गृहीतमस्ति तत् तु षष्टिच्छेदं तच्चतुःषष्टिच्छेदं कार्यम् । अतस्ता घटिकाश्चतु:षष्टया किल गुण्याः षष्ट्या भाज्याः ॥ एवं चतुषष्टिच्छेदमवमशेषं भवति ॥ अथ चतुःषष्टिस्थाने त्रिषष्टिरेव कृता ॥ किमिति ॥ तत्रोच्यते पूर्वं या अधिमासशेषतिथय अागतास्ता एव शुद्धित्वेन ग्रहीतुं युज्यन्ते ॥ यतस्ताभिरूनाश्चैत्राद्यास्तिथयोऽब्दान्तादग्रतो गृहीता भवन्ति ॥ अथ च शुद्धितिथयः कार्यान्तरवशादवमघटीभिरूनाः शुद्धित्वेन परि कल्पिताः । अवमघटिकोनया शुद्धया यावच्चैत्राद्यास्तिथय ऊनीकृतास्तावच्छेषतिथिष्ववमशेषघटिका अधिका जाताः ॥ यतः शोध्यमानमृणं धनं स्यादिति ॥ यत एकगुणा युक्ताः ॥ अतस्त्रिषष्टि