न्तादिष्टदिनोदयं यावदहर्गणोऽपेक्षितः । अब्दान्तस्तु दिनादिघटिकान्ते । अत्रायमभिसन्धिः । यस्मिन् दिने रव्यब्दान्तस्तस्मिन्नकॉदयकाले कल्याद्यहर्गणः साध्यः । तस्मिन् साध्यमाने लब्धा ये दिनक्षयास्ते तु सौरवर्षांद्यकाँदयं यावत्प्रागानोतचान्द्राणां सावनानामन्तरे भवन्ति । ततस्तु रव्यब्दान्ताकॉदयादग्रत इष्टदिनोदयं * यावद्यदि द्युगणः साध्यते तदा ये दिनक्षया वर्षाद्यकॉदयकालीनावमशेषयोगेन निरवयवाः सिद्धयन्ति तन्मितमेव चान्द्रसावनानामन्तरं भवति । तयोरहगणयोर्यावद्योगः क्रियते तावत्कल्पादेरिष्टदिनोदयं यावत् कल्पाद्यहर्गण एव भवति। तत्र रव्यब्दान्ताद्ग्रहानयनं चिकीषितमिति तत्कालीन एवाहर्गणः कर्तुं युज्यते । यस्भिन् दिने रव्यब्दान्तस्तदकॉदयाद्रव्यब्दान्तपर्यन्तमन्तरमब्दपघटिकाः ।
शुद्धेरवमघटीषु शोधितासु दिनादिघटिका एव भवन्ति । यतो दिनक्षयचान्द्रघटोनामन्तरं सावनघटिकाः । तस्मात् प्रागुक्ताहर्गणप्रथमखण्डेऽब्दपघटिका योजिता जातोऽहगणः सौरवर्षादौ । द्वितीयखण्डे तु दिनादिघटिकाः शोध्या एव । अन्यथाऽहर्गणखण्डद्वययोगस्य कल्पाद्यहर्गणतुल्यत्वं भवेत् । अतो युक्तमुक्त भगवता भाष्यकारेण यस्मिन् दिने रव्यब्दान्तो यावतीभिर्घटीभिस्तद्दिने तत्कालादनन्तरार्कोदयं यावद्या घटिकास्ता एव लघ्वहगणिस्य शेषभूताः । रव्यब्दान्तानन्तराकौंदयत इष्टदिनोदयं यावद्ये वारास्त एव लघ्वहर्गाणे दिवसा इति ।
अथावमानयनं सावनीकरणाय । कल्पचान्द्र: कल्पावमास्तदाऽनेन सावनशुद्धद्यूनचैत्रसितादिगततिथिसङ्घेन किमिति दिनक्षयानयनम् । तत्र सञ्चारः । यदि कल्पचान्द्रमिते हरे कल्पावमानि गुणस्तदा चतु:षष्टिमिते हरे को वा गुण इति लब्धो गुणः सावयवः ॥१॥०॥५॥७॥४२ हरस्तु चतुःषष्टिरेव । तत्रैकखण्डं रूपमितम् ॥ १ ॥ द्वितीयमिदं ॥०॥५॥७॥४२ कराभ्रतुरङ्गः सर्वाणतं जातमुपरि रूपम् । अत उक्तं ‘पृथक् च समेतः स्वीयकराभ्रतुरङ्गलवेनेति' । इदं चतुःषष्टिच्छेदम् । पूर्वोक्तखण्डद्वयसाधितावमयोगेन कल्पादेरिष्टदिनोदयावधिसाधितनिरययवावमतुल्येन भवितव्यमिति सौरवर्षादिजा अवमघटिकाः षष्टिभक्ता अस्मिनवमाद्ये योज्याः । एवं कृतेऽत्र ये निरग्रावमाः सिद्धयन्ति त एव लघ्वहर्गणे शोध्याः ॥ सौरवर्षादौ या दिनक्षयघटिकास्ताः षष्ठया भाज्या दिनानि भवन्ति । एतेषामवमदिनानां यदि चान्द्राः क्रियन्ते चान्द्रद्युगणे चेत् क्षिप्यन्ते ततोऽवमानयनेनापि येऽवमास्ते यथोक्तापेक्षितावमा एव भवन्तीति षष्टिभक्तावमघटिकाश्चतुःषष्टिगुणिताश्चान्द्रगणे योज्याः । तत्र त्रिषष्टिगुणिता एव योजिताः । यतोऽवमानयने केवलशुद्धद्यूनचैत्रादिचान्द्रेभ्य एवावमाः साध्यास्तत्र सावनशुद्धिशोधनादवमघटिकाः केवलशुद्धयूनचैत्रादिचान्द्रेष्वधिकाः सन्ति । तस्मात्सौरवर्षादिजावमघटिकास्त्रिषष्टया गुणनीयाः षष्टया भाज्याः । तत्र गुणहरौ त्रिभिरप वत्र्य गुणस्थाने एकविंशतिः हरस्थाने विंशतिर्जाताः । यस्तु एकविंशत्या गुण्यते विंशत्या ह्रियते स स्वीयनखांशयुक्त एव भवति ॥ अतः ‘क्षेपयुतः कृतषट्कविभक्त' इत्यादि
१. दिनोदिन इ० क ख पु० । २. भज्येत कख पु० ।