तोऽतः कुजगति विशोध्य शेषम् ॥ ० ॥ ३ ॥ ३१ ॥ ५३ ॥ अनेन संसदशगुणेनैका कला भवति ॥ अत उत्तं द्युगणससदशांशविवर्जितमिति । पूर्वफलेन भागादिनाऽनेन च कलादिना भौमध्रुवको युक्तः कुजो भवति । यतोऽयमहर्गणोऽकब्दान्तादूध्र्वमतस्तदुत्थं फलं रविमण्डलान्तिके योज्यमित्युपपन्नम् ।। १७ ।।
इदानी बुधचलानयनमाह
दिनगणः कृतसङ्गुणितः पृथग् गुणगुणः खगुणेन्दुभिरुद्धृतः । |
वा० भा०-स्पष्टार्थम् ।
अत्रोपपत्तिः । अहर्गणश्चतुर्गुणो भागा भवन्तीति प्रसिद्धम् ॥ अथ ज्ञचलस्य कल्पभगणानां भागान् कृत्वा तेभ्यश्चतुर्गुणान् क्वहान् विशोध्य शेषस्यास्य १४५६५३८३४२४० द्वादशांशेनानेन १२१३७८१९५२० शेष क्वहाश्वापर्वातंता जाताः शेषस्थाने द्वादश १२ क्वहस्थाने खगुणेन्दवः १३० । अतः पृथगहर्गणो द्वादशभिगुण्यः । पूर्व चात्र चतुर्गुणोऽहर्गण आसीत् । स एव त्रिगुणो द्वादशगुणो भवतीति गुणगुण उत्तः ॥ पृथक् स्थितो यश्चतुर्गुणितः स एव त्रिगुणीकृतस्तेन द्वादश.गुणितो जातः ॥ खगुणेन्दुभिर्भक्तः फलभागैः पृथक स्थितश्चतुर्गुणोऽहर्गणो युतः कार्यः । एवं ते भागाः प्राग्वत् ध्रुवके क्षेप्या इत्युपपन्नम् ॥ १८ ॥
इदानी गुरोरानयनमाह ।
द्युमणिभिः कुनगैर्युगणो हतो लवकलाः स्वमृणं धुवके गुरुः ।
वा० भा०-स्पष्टम् ।
अत्रोपपत्तिः । किञ्चिन्यूनाः पञ्च कला गुरोर्गतिरिति द्वादशभिदिनैरेको भागः । यन्न्यूनं तेन रूपे हृते एकसप्ततिर्लभ्यते । अत एकसप्तत्या दिनैरेका कलोनेत्युपपन्नम् ॥ १८ ॥
अथ शुक्रचलानयनमाह।
ऋतुभिरक्षदिनैर्देशसङ्गुणात् फललवाः स्वमृणं ध्रुवके सितः ।। १९ ॥
वा० भा०-स्पष्टार्थम् ।
अत्रोपपत्तिः । अत्र सुखार्थमहर्गणं दशगुणं कृत्वा भागहारद्वयेन फले साधिते ॥ तत्र दशभ्यः षड्रभिर्भागे हृते लब्धमेको भागवत्वारिंशत् कलाः १ ॥ ४० । इदं दिनगतेरधिक जातम्। अस्माद् गति विशोध्य शेषम् ० ॥ ३ ॥ ५२ ॥ १५ ॥ २५ । अनेन दशभ्यो भागे हृते लब्धाः पञ्चपञ्चेन्दवः १५५ । अतोऽहर्गणाद्दशघ्नात् पृथक् षडभिः पञ्चतिथिभिश्च हृताल्लब्धे भागाद्य धनर्णरूपे फले इत्युपपन्नम्। १९ ।
इदानी शनेरानयनमाह ।
द्विध्नो दिनौघ: पृथगक्षभक्तो लिसा विलिसा ध्रुवके स्वमार्कि: ।
वा० भा०--अत्रोपपत्तिः । गतिः कलाद्वयम् । अधोऽवयवात् पञ्चभिदिनैर्द्वे विकले च भवत इत्युपपन्झं द्विष्नो दिनौघ इत्यादि ॥ १९॥