इदानी दिनगतिसाधनमाह ।
महीमितादहर्गणात् फलानि यानि तत्कलाः । |
समा गतिस्तु योजनैर्नभः सर्दा सदा भवेत् । |
वा० भा०-अत्रोपपत्तिस्त्रैराशिकेन । पूर्व गतियोंजनात्मिक ग्रहाणां तुल्यैवोता। इवानीमतुल्या । सा कलादिकल्पनावशात्। २५-२६ ॥
इदानीमतुल्यत्वे कारणमाह ।
कक्षा. सर्वा अपि दिवषर्दा चक्रलिप्ताङ्कितास्ता |
वा० भा०-यत: सर्वा अपि कक्षाश्चक्रलिप्ताभिरेवाङ्किताः । अतो महति वृते महत्यो लिप्ताः स्युः । लघुनि लघ्व्यः । तद्यथा चन्द्रकक्षा सर्वाधःस्था लघुः । तस्यामेका कला पञ्चदशभियोजनैर्भवति । शनेः कक्षा सर्वोपरिस्था सा महती । तस्यामेका कला योजनानां षड्भः सहस्रैरेकसप्तत्योनै ५९२९ भवति ॥ योजनं चतुःक्रोशमेव । अतश्चन्द्रात् सकाशादूध्वध्र्वस्था बुधशुक्रादयः क्रमेण मन्दाक्रान्ता मन्दगतय इव भान्ति। मन्दाक्रान्ता छन्दोऽपि सूचितम्। २७ ॥
इति सिद्धान्तशिरोमणिवासनाभाष्ये प्रत्यब्दशुद्धिः ।
इदानीमहर्गण दौ विशेषमाह ।
अभीष्टवारार्थमहर्गणश्चेत् सैको निरेकस्तिथयोऽपि तद्वत् । |
वा० भा० - इह किल स्थूलत्थ्यिानयने यस्यां तिथौ यो वार आगतः स चेदहर्गणे नागच्छति तदाहर्गीणं सैकं निरेक कृत्वा ग्रहा: साध्या इति ज्योतिविदां संप्रदायो युक्तियुक्त एव । यतोऽहर्गणस्य वारो नियामकः । एवं कृते यो विशेषः सोऽभिधीयते । तिथयोऽपि तद्वदित्यादि । अत्रैतदुक्ततं भवति । यदा वारार्थं सैकोऽहर्गणः कृतस्तदाधिमासावमशेषाभ्यां चन्द्राकनयने 'कोट्याहतैरङ्गकृतेन्दुविश्वैरित्यादौ द्वादशगुणास्तिथयोऽर्कभागेषु याः क्षेप्यास्ताः सैकाः कृत्वा द्वादशगुणाः क्षेप्याः । यदा निरेकोऽहर्गणः कृतस्तदा निरेकाः कृत्वा ॥ तथा यदि सैकोऽहर्गणस्तदाधिमासशेषं कल्पाधिमासैर्युतं कार्यम् । अवमैरवमशेषञ्च ॥। यतः सैकासु तिथिषु सैकोऽहर्गणो निरेकासु निरेकः । तथा प्रतिदिनमधिमासशेषस्याधिमासरुपचयोऽवमैरवमशेषस्यातो युक्तमुक्तम् ॥ १ ॥