वा० वा०-अत्राहगणानयने यो वारः समायाति स तु मध्यमवर्तमानतिथावुदये । अपेक्षितस्तु स्पष्टतिथिसूर्योदये । यतोऽयं लोकव्यवहारः स्पष्टेनैव प्रवर्तते स्पष्टस्यैव मुख्यत्वात् । यत्रोदयात् पञ्चचत्वारिशद्घटिका वर्तमान्तथिः पुञ्चमी मध्यममानेन तस्यां मन्दफलघटिकास्त्रिशन्मिताः धनं क्रियन्ते तदा द्वितीयसूर्योदयभिन्नत्वादहर्गणः सैको विधेय इत्यादि शोभनमुक्तम् । एवं स्पष्टाधिमासवशेनाहर्गणोपेक्षिते, जातस्तु मध्यममानेनातो युक्त सैकनिरेकत्वमधिमासानामपि तथैव शुद्धावपि शेष भाष्ये स्पष्टमुक्तम् ॥ १-५ ॥
इदानीमधिमासस्य क्षयमासस्य च लक्षणमाह ।
R ': स्फुटं स्याद्' |
वा० भा०--यस्मिन् शशिमासेऽकसंक्रान्तिनस्ति सोऽधिमास इति प्रसिद्धम् । तथा यत्र मासे संक्रान्तिद्वयं भवति स क्षयमासो ज्ञेयः । यतः संक्रान्त्युपलक्षिता मासाः । अत एकस्मिन् मासे संक्रान्तिद्वये जाते सति मासयुगलं जातम् । स क्षयमासः कदाचित् कालान्तरे भवति । यदा भवति तदा कातिकादित्रय एव । तदा क्षयमासात् पूर्वं मासत्रयान्तर एकोऽधिमासोऽग्रतश्च मासत्रयान्तरितोऽन्यश्चासंक्रान्तिमासः स्यात् ।
अत्रोपपत्तिः । चन्द्रमासप्रमाणमेकोनत्रिशत् सावनदिनान्येकत्रिशत् घटिकाः पञ्चाशत् पलानि २९॥३१॥५०। तथार्कमासस्त्रिशद्दिनानि षड्वशतिर्घटिकाः सप्तदशपलानि ३०॥२६॥१७॥ एतावद्धिदिवसरविर्मध्यमगत्या राशि गच्छति । यदाकगतिरेकषष्टिः कलास्तदा सार्धेकोनत्रिशता दिने २&॥३० राशि गच्छति । अतःश्वान्द्रमासादल्पोऽर्कमासस्तदा स्यात् । एवं रविमासस्य पर
१. अत्र ब्रह्मसिद्धान्ते।
मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः ।
त्रैत्राद्यः स ज्ञेयः पूतिद्वित्वेऽधिमासोऽन्त्यः ॥
२. अत्राषवचनानि ।
सर्वेषु मासेष्वधिमासकः स्यात् तुलादिषट्केऽपि च शून्यमासः ।
संसर्पकः सर्वभवो हि मासः सर्वेऽपि त्रैते खलु निन्द्यमासाः ॥
- वृ० वसि० सि० मध्य० ६२ श्लो० ॥
एकस्मिन्नपि वर्षे चेद्द्वी मासावधिमासको ।
पूर्वो मासः प्रशस्तः स्यादपरस्त्वधिमासकः॥
एकस्मिन्नपि वर्षे यत्रेदं लक्ष्म दृश्यते उभयोः ।
तत्रोत्तरोऽधिमास: स्फुटगत्या चायमकॅन्द्वोः ॥