इति गम्यते। यद्यन्यमुनिग्रन्थे विशेषो दृश्यते तदेदं मुनिकृतं सामान्यशास्त्रमिति गम्यत इति प्रागुक्तमेव । 'पदे जुहोति' इत्यनेनाहवनीये जुहोतीतिवत् । यथा च भेदयोगे दृक्कर्मसंस्कारो न कर्तव्य इत्यर्थप्रतिपादके न ग्रहणादन्ययोग इति शाकल्यवाक्येन नक्षत्रग्रहयोगेष्विति सर्वत्र प्राप्युष्माणं सूर्यसिद्धान्तवाक्यमिव । एतेनाधिकमासनिर्णयाय दशन्ते लम्बनसंस्कृति स्वकपोलकल्पितां वदन्तश्चन्द्रग्रहणे च तिथौ दृक्कर्मसंस्कारं च वदन्तो निरस्ताः । अथवा मुनिमतविरुद्धं वदन्तु नाम किं ममानेन तथाऽपि ।
“शाकल्यसंज्ञमुनिना निखिलं निबद्धं पद्यस्तदेव विवृणोमि सवासनं स्वैः” । इति तेषां प्रतिज्ञाभङ्गो मम चित्तं क्षोभयति ।
यद्यपि न भवति हानि: परकीयां चरति रासभे द्राक्षाम्। |
इति न्यायेन । किञ्च शीघ्रोच्चमन्दोच्चपाताख्यदेवताविशेषाः सौरादिशास्त्रेषूक्तास्त्वया च नीचदेवताऽप्यधिका स्वीकृता ।
"ग्रहात्प्राग्भगणार्द्धस्थः प्राक्मुखं कर्षति ग्रहम् । |
इत्यनेनापि नौचदेवतास्वीकरणं विरुध्यते । यथोच्चदेवतया ग्रह आकष्यंते तथा नीचेनाप्याकष्यंत इति त्वयोच्यते । तथा सति नीचसान्निध्ये न वक्रा गतिर्धनर्णवासनाप्रतिपादनं यन्मुनिभिरुच्यते तत्सर्व त्वदुतनीचदेवतास्वीकारेण विरुध्यते। उच्चनीचदेवतयोस्तुल्यगतित्वेन विरुद्धदिग्जनितसमाकर्षणाद्ग्रहबिम्बस्वरूपमुन्मथ्येत निष्क्रियं वा प्रसज्जेत।
किञ्चोच्चदेवतावशेनैवोपपद्यमानं ग्रहोर्ध्वाधरगमनं न स्वार्थेॐ देवताद्वयं कल्पपयति । याम्योत्तरगतौ विक्षेपात्मिकायामेकस्य पातस्यैव कारणत्वेन कल्पितत्वात् । तस्मादिदमप्यसत् । किञ्च शनिकक्षोध्वस्थस्य भचक्रस्य
'सममुडुभिरदृश्यैरडूितं दस्रभाद्य:' इत्यनेनाभानप्रतिपादनं दृश्यमानानामश्विन्यादिनक्षत्राणाञ्च चन्द्रकक्षास्थितत्वापादनं मुनिमतविरुद्धत्वादयुक्तत्वाच्चासत्। किश्व भूमेराधारकल्पना स्वीकरणं गतिशास्त्रप्रणेतृविरुद्धत्वादयुक्तम् ।
किञ्च गतेर्मन्दफलसाधने४ टीकाकारेण धनर्णव्यत्यास उक्तस्तत्र च मन्दकर्णवृद्धिह्रासयोः कारणत्वाभिधानं कृतं तदप्यसत्।
१- सूर्य सिद्धा० स्पष्टा० ४ श्लो० ।
२. सू० सि० स्प० ५२ श्लो० । वक्रगतिस्तदा' इ० पाठा० ।
३. स्वार्थ क ख ग पु० । ४. फलमाधने इ० ग पु० ।
सि०-१२