पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/135

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
सिद्धान्तशिरोमणौ ग्रहगणिते

 किञ्च यष्टिसाधने शृङ्गोन्नतौ च यद्दूषणं दत्तं तद्युक्तिशून्यत्वादसत् । उच्छास्त्रं स्वच्छन्दं प्रवर्त्तमानानामेवमादीनि दूषणान्येव भूषणानि भवन्तीति गुणा एव तेषां वक्तव्यास्त एव दूषणाय प्रभविष्यन्ति ।

 यथा सौरचान्द्रान्तरेऽधिकामासाः पूर्वे: स्वीकृतास्तथा त्वया सौरसावनान्तरे चान्द्रसावनान्तरे वा न स्वीकृता इति तवायं गुण उत्तयुक्तस्तुल्यत्वादिति । नक्षत्रानयनं स्थूलसूक्ष्मभेदेन धर्मशास्त्रफलादेशशास्त्रोपयुक्तत्वाद्द्वविधमादृतम्। तत्त तथैव त्वयाप्यादृतमिति महान् गुणो वैषम्यस्वीकारात् । रविचन्द्रयोगाद्योगः साधितस्तदान्यग्रहयोगाद्योगाः कुतो न भवन्तीति नोक्तमिति गुणः । ग्रहाणां स्पष्टीकरणे वैषम्याङ्गीकरणमपि भवतो गुणगणनार्थं प्रभवति ।

 अथ यथा मुनिशास्त्रं तथैव मया स्वीक्रियत इति यदि ब्रूयात् प्रतिब्रूयादेनम् । किमर्थ तहि लम्बनदृक्कमांड्युक्तमिति ।

 ननु मुनिभिरनुप्त बीजमपि भवद्धि: स्वीक्रियते तद्वन्मदुत्तलम्बनसंस्करणमधिमासार्थ स्वीक्रियतामिति चेत् । उच्यते । अस्मिन् काले बीजमेतावत् तस्मिन् काले चेदमिति नोक्तं तथापि बीजं संस्कार्यं ग्रहेष्वित्युक्तं मुनिभिः ।

 ध्यानग्रहोपदेशाद्वीज ज्ञात्वा सुदैवज्ञे: ।  तत्संस्कृतग्रहेभ्यः कर्त्तव्यौ निणयादेशौ ।। इति । अत एव बीजं त्वयापि स्वीकृतम् ।

‘मुनिप्रणीते मनुजैर्दृश्यते क्वचिदन्तरम्।
तदा तदेव संसाध्यं न कार्यं सर्वमन्यथा इति । तथा सौरे।

'तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः ।
प्रयान्ति तत्प्रवक्ष्यामि स्फुटीकरणमादरात् ॥ इति ।

 अत्र नित्यमिति स्फुटीकरणविशेषणं, तेन नित्यं स्फुटीकरणं वक्ष्यामीति । तत्र स्फुटीकरणं द्विविधम् । एकं नित्यम् । अन्यन्नैमित्तिकञ्च । तत्र नियतनिमित्तोपाधिना तुङ्गव्यवधानादिना क्रियमाणं नित्यमित्युच्यते । अनियतनिमित्तोपाधिना बीजवशेन क्रियमाणं नैमित्तिकम् । बीजाख्योऽपि कश्चन वायुविशेषोऽस्तीति कल्प्यते तत्संस्कारस्य दृष्टत्वात्, उच्चपातादिदेवतावत् । स तु स्वच्छन्दगतिश्चन्द्रकक्षाप्रभूतिष्वष्टाष्वपि कक्षासु भिन्नभिन्नजवेन कदाचिद्वाति । कदाचिदेकस्यामेव कक्षायां वाति द्वद्यादिकक्षायां वा कदाचित् कक्षाष्टकेऽपि न वाति। यन्मते मुनीनामतीन्द्रियार्थविज्ञाने शक्तिरस्ति तन्मते बीजजवस्य त्रैविध्यं स्वीकार्यम् । कल्पकाले या वास्तवा ग्रहशीघ्रमन्दोच्चपातानां भगणाद्या गतिस्तस्याः संख्याया एकरूपत्वमेवापेक्षितम् । वस्तुनि द्वैरूप्यासंभवात् । तस्याः कल्पगतेरनुपातसिद्धा यैकदिनजा गतिः साप्येकरूपैव । मुनिभिः कस्मिश्चित् कालविशेषे योपलब्धा मध्यमा गतिः सा वास्तवगतेन्यूनाधिका


१. to सि० स्पष्टा० १४ হস্তীo