अकॉदयादूर्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिनपप्रवृत्तिः । |
वा० भा० - यः किल मध्यरेखाया अपरिज्ञानात् ततः प्राक् पश्चाद्वा स्थितोऽस्मीति न वेति तेनैवं ज्ञातव्यम् । विधुग्रहणदिने घटिकायन्त्रेण स्पर्शकाले रात्रिगतं ज्ञेयम् । अथञ्च गणितेन स्पर्शकाली ज्ञेयः । गणितोत्थकालादनन्तरं प्रग्रहण यदि दृष्ट तदा द्रष्टा रेखात: प्राग्भूविभागे । यतो द्रष्टा यथा यथा रेखात: प्राग्व्रजति तथा तथा रेखोदयात् प्रागेवाकॉदय पश्यति । इतोऽन्यथा चेतदा पश्चाद् द्रष्टा । दृग्ग्रहणप्रग्रहणकालयोरन्तरं देशान्तरघटिकास्ताभिगुणितं षष्टया हृतं स्पष्टभूवेष्टनम्। एवमनुपाताद्देशान्तरयोजनानि । अथवा कि योजनैः । यदि वटीषष्टया गतिलभ्यते तदा देशान्तरघटीभिः किमिति एवं यत् फलमुत्पद्यते तत् प्रागूणं पश्चाद्धनमिति युक्तमुक्तम् । तथा प्राच्यां ताभिर्घटीभिर्दिनवारप्रवृत्तिरकर्षोदयादूध्र्वं भवति ॥ ५ तीच्यान्तु तस्मादधः ॥ यतो लड्रोदये वारादिः। अत एव च रवावुतरगोलस्थे। चरार्धघटिकाभिरूध्वम्। यतस्तदोन्मन्डल क्षितिजादूर्ध्वम् । दक्षिणे त्वधोऽतस्तत्रोदयादधो वारप्रवृत्तिरिति सर्वं निरवद्यम् ।। ४-६ ।।
इदानों ग्रहाणां बीजकर्माह।
खाभ्रखाकैर्हृताः कल्पयाताः समाः शेषकं भागहारात् पृथक् पातयेत् । |
१. अत्र ब्रह्मगुप्तः ।
जगति तमोभूतेऽस्मिन् सृष्टयादौ भास्करादिभिः सृष्टैः । यस्माद्दिनप्रवृतिदिनवारोऽकोंदयातू तस्मात् । |
तथा श्रीपति:
सृष्टमुंखे ध्वान्तमये हि विश्वे ग्रहेषु सृष्टष्विनपूर्वकेषु। |
लङ्कोदग्याम्यसूत्रात् प्रथममपरतः पूर्वदेशे च पश्चाद |
अन्यच्च तत्रैव ।
केचिद्वारं सवितुरुदयात् प्राहुरन्ये दिनार्धाद्धानोरर्धास्तमयसमयादूचिरे केचिदेवम् । |