पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/141

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
सिद्धान्तशिरोमणौ ग्रहगणिते


पञ्चभिः पञ्चभूभिः कराभ्यां हतं भानुचन्द्रेज्यशुक्रेन्दुतुङ्गेष्वृणम् ।
इन्दुना दस्रबाणैः कराभ्यां कृतैर्भीमसौम्येन्दुपातार्किषु स्वं क्रमात् ॥८॥
 वा० भा० - स्पष्टम् ।
 अत्रोपलब्धिरेव वासना यद्वर्षसहस्रषट्कं यावदुपचयस्ततोऽपचय इत्यत्रागम एव प्रमाणं
नान्यत् कारणं वक्तुं शक्यत इत्यर्थः ॥ ७-८ ॥

 अथाधिकारोपसंहारे श्लोकद्वयं युक्तियुक्तमाह।

 यद्ग्राम्यैरपि विस्तृतं बहुतरैस्तन्त्र'प्रकारान्तरै
 र्मन्दानन्दकरं तदत्र निपुणैः प्राज्ञैरवज्ञायते ।
 आख्याते पृथुता सगोलगणिते व्यर्था हि तस्मान्मया
 संक्षिप्तं नच विस्तृतं विरचितं रञ्जयो हि सर्वो जनः ॥ ९ ॥
 रूपस्थानविभागतो दृढगुणच्छिद्भ्यां च संचारतो
 नानाच्छेदविभेदभिन्नगुणकैर्नानाप्रकारेष्वपि
 अाद्याद्यत्र विचित्रभङ्गिभिरभिप्रेतप्रसिद्धयै क्रिया
 लष्वी वाथ समा तदेव सुधिया कार्य' प्रकारान्तम् ॥ १० ॥
वा० भा०-स्पष्टार्थमिदं श्लोकद्वयम्। ९-१० ।

  इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे
     मध्यगतिसाधनाधिकारः प्रथम: ? ॥ १ ।।





१. अत एव विष्णुदैवज्ञः ।
 यद्यत् क्रियालाघवमत्र तन्त्रे तत् तद् गुरुत्वाय भवेत् कृतीनाम् ।
 क्रियागुरुत्वानितरां लघुत्वमहो विचित्रा गणितप्रसति:।