पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/142

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ स्पष्टधकारः


 अत्राधिकारे ग्रन्थसंख्या नवशतानि ॥ ९०० ।
 इदानीं स्पष्टगतिव्याख्यायते । तत्रादौ तदारम्भप्रयोजनमाह--
 यात्राविवाहोत्सवजातकादी खेटै: स्फुटैरेव फलस्फुटत्वम् ।
 स्यान् प्रोच्यते तेन नभश्राणां स्फुटक्रिया दृग्गणितैक्यकृद्या'॥ १॥
 वा० भा०-स्पष्टार्थम् ।। १ ।।


१. जातकसारदीपेऽपि प्रस्फुटद्युच्चराधीनमेव सर्वं फलमिति निगदितमस्तिः ।
यथा विवाहे जातके यात्रा प्रश्नवास्तु व्रतादिषु ।
 ज्योतिश्शास्त्रात् फल सर्व प्रस्फुटद्युचराश्रयम् । १७ अ० २ श्लो० ।
२. दृग्गणितैक्यसंस्थापनार्थमत्र ग्रन्थान्तरवाक्यानि ।
जातकादिषु सर्वत्र ग्रहैज्ञान प्रजायते।
तस्माद्गणितदृक्तुल्यात्स्वतन्त्रात्साधयेद् ग्रहान् ।
तत्तु सम्यक् प्रकारेण प्रवक्तुं नैव शक्यते ।
सिद्धान्तानान्तु सर्वेषां साम्यन्नास्ति मिथो यतः ।।
प्रत्यक्षसमयाच्चैते येन पक्षेप यत्र वै ।
स्फुटं दृक्तुल्यतां यान्ति तेन · सर्वविनिर्णयः ॥

जा० सा० दी० १७ अ० १, ३-४ श्लो० ।

अन्यच्च ज्योतिविवरणे—
यात्रोद्वाहप्रभृतिषु फलं स्पष्टखेटाश्रयं यत्
 तस्मात्तत्साधन - इह बुधैर्भाषतेऽपि क्वचित्ते ।
स्पष्टा न स्युः परमपुरुषाशाश्चला लक्ष्यचारा- -
 स्तस्मात्साध्या बहुविधमतैर्नेकपक्षाभिमानः ।

जा० सा० दी० १७ अ० ५ श्लोo ।

तथा च वसिष्ठ:—यस्मिन् पक्षे यत्र काले येन इग्गणितैक्यकम् ।
 दृश्यते तेन पक्षेण कुर्यातिथ्यादिनिर्णयम् ॥

( जा० दी० १७ अ० ६ श्लो० )

अन्यच्च ब्रह्मसिद्धान्तेऽपि- -
 संसाध्य स्पष्टतरं बीजं नलिकादियन्त्रेभ्यः ।
 तत्संस्कृतग्रहेभ्यः, कतव्यौ निर्णयादेशौ ।

(हो० र० २ अ० ग्रहा० ३५ श्लो०)

 सि०-१३