पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/143

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा० वा

जगद्गुरोः पितृव्यस्य पादावानम्य भक्तितः
स्पष्टाधिकारेऽपूर्वोक्त्या क्वचित्किञ्चिदिहोच्यते ॥ १ ॥
स्फुटक्रियोपयोगाय मध्यमानयनं कृतम् ।
स्फुटक्रियारभ्भणस्य प्रयोजनमथोच्यते ॥ २ ॥।



सौरभाष्येऽपि

संसाध्य स्पष्टतरं बीजं नलिकादियन्त्रेभ्यः ।
तत्संस्कृतास्तु सर्वे पक्षाः साम्यं भजत्येव ॥।

(जा० सा० दी० १७ अ० ७ श्लो० )

वसिष्ठसिद्धान्तेऽपि

इत्थं माण्डव्यसंक्षेपादुक्तं शास्त्रं मयोक्तमम् ।
 विस्रस्ती रविचन्द्राद्यैर्भविष्यति युगे युगे ।।

(हो० र० २ अ० ग्रहा० ३४ श्लो० )

सिद्धान्तसुन्दरेऽपि

मुनि प्रणीते मनुजैः क्वचित्ते दृश्यतेऽन्तरम् ।
तदा तदेव संसाध्यं न कायं सर्वमन्यथा ।।

(हो० र० २ अ० ग्रहा० ३६ श्लो० )

दामोदरपद्धती च

यान्ति संसाधिताः खेटा येन इग्गणितैक्यकम् । ।
 तेन पक्षेण ते कार्याः स्फुटास्तत्समयोद्भवाः । ।।

(हो० र० २ अ० ग्रहा० ३२ श्लो० )

अपि च श्रीगणेशदैवज्ञेन बृहत्तिथिचिन्तामणौ स्पष्टतया दृग्गणितैक्यस्यैव प्रधानत्वं स्वीकृत मस्ति ।यथा

ब्रह्माचार्यवसिष्ठकश्यपमुखैर्यत् खेटकमदित
तत् तत्कालजमेव तथ्यमथ तद्भूरिक्षणेऽभूच्छलथम् ।
प्रापातोऽथ मयासुरः कृतयुगान्तेऽकात् स्फुटं तोषितात्
तच्चास्ति स्म कलौ तु सान्तरमथाभूच्चारुपाराशरम् ।। १ ॥
तज्ज्ञात्वार्यमटः खिलं बहुतिथे कालेऽकरोत् प्रस्फुटं
तत् स्रस्तं किल दुर्गसिहमिहिराद्यैस्तन्निबद्धं स्फुटम् ॥
तच्चाभूच्छिथिलं तु जिष्णुतनयेनाकारि वेधात् स्फुटं
ब्रह्मोक्त्याश्रितमेतदप्यथ बहौ कालेऽभवत् सान्तरम् ।। २ ।। ।

श्रीकेशवः स्फुटतरं कृतवान् हि सौरार्यासन्नमेतदपि षष्टिमिते गतेऽब्दे ॥ दृष्ट्रा श्लथ किमपि ततनयो गणेश: स्पष्ट यथा स्वकृतदृग्गणितैक्यमत्र । ३ ।। कथमपि यदिद चेद्भूरिकाले श्लथ स्यात् मुहुरपि परिलक्ष्येन्दु ग्रहाद्वद्युक्षयोगम् । सदमलगुरुतुल्यप्राप्तबुद्धिप्रकाशै: कथितसदुपपत्या शुद्धिकेन्द्र प्रचाल्ये । ४ ।।