फलादेशे स्फुट एव स्वीकार्या न तु मध्यमाः ।
अत्र लिङ्गान्यनेकानि यात्रायां तावदुच्यते ॥
यस्योदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरोङ्गारकसौम्यसौराः ।
द्विषद्बलस्त्रीवदनानि तस्य क्लान्तानि कान्तानवलोकयन्ति ॥
लग्नशुक्रात् सुखे चान्दिनं स्यात्स्पष्टक्रियां विना ।
मध्यगत्या तयोरैक्यात् फलं स्पष्टाश्रयं ततः ॥
विवाहे च
रविकविरविजेन्दुभिः क्रमेण व्ययधनषण्निधनेषु कूर्म एषः ।
इह विहितकरप्रहा गृहाणि भ्रमति भुजष्यतयापरःशतानि ॥
अत्रापि व्ययस्थे रवौ धनस्थः शुक्रः स्पष्टत्वेनैव भवति ।
जातके च
एकान्तरगतैरर्थात् समुद्रः षड्गृहाश्रितैः ।
विलग्नादिस्थितैश्चक्रमित्याकृतिजसङ्ग्रहः ॥
अत्रापि रविबुधशुक्राणामेकान्तरादिगतत्वं स्फुटत्वे संभवति ।
प्रश्नेऽपि ।
जीवो वा शशधरनन्दनोऽपि वार्कः शुक्रो वा यदि चरलग्नमाश्रितः स्यात् ।
निर्देश्यं गमनमिहापि मार्गतः स्याद् व्यावृत्तिः स्थिरंतनुगा भवन्त्यमी चेत् ।
अत्र रविबुधशुक्राणां मध्यमत्वे विकल्पो नावकल्पते । ।
तथा च शाखास्कन्धे ।
वक्त्यारोप्युद्गमश्नन्नगवसुनवमेऽग्निस्त्रिके तोयवृष्टी ।
रुयुग्मेऽतोऽहिभीतीर्मुखरुगपरयोश्चान्ययोश्चौरभीतिः इति ।
कुजस्यो°ष्णादिवक्रत्वस्पष्टत्वेनैव संभवतीत्येवमादीनि फलस्य स्पष्टखेटाश्रयत्वं
गमयन्ति । ग्रहयोगभृङ्गोन्नमनाद्य ग्रहगणितं स्पष्टखेटेभ्य एव क्रियत इति वक्ष्यमाणां
धिकाराणामयमधिकारोऽत्यन्तमुपयुक्तः ।
अत एवामुमधिकारमुपकरणाधिकारमित्याचक्षते । तस्माच्छोभनमुक्तं
स्फटैरेव पलस्फुटत्वमिति ।
स्फुटक्रियेति । ग्रहस्य स्पष्टत्वं प्रत्यक्षत्वं यन्त्रवेधेन रेवत्याः सकाशात्क्रान्ति-
मण्डलावयवे भाद्येकस्मिन् ग्रहावस्थितिरिति ज्ञानमिति यावत् । तदुपयोगिनी क्रिया
स्फुटक्रियेत्यर्थः। गोलबन्धोक्तविधिना गोलयन्त्रं तत्र च कदम्बद्वयकीलयोः प्रोतं
वेधवलयच निवेश्य तद्गोलयन्त्रं जलसमक्षितिजवलयं भवति तथा स्थिरं
यथा
ध्रुवाभिमुखयष्टिकं च कृत्वा गोलस्थमीनान्तं रेवतीतारायां निवेश्य गोलमध्यस्थदृष्टया
१. लिगन्यन्ते ग पु० ।। २. तवदुच्य ख पु० ॥ ३. त्रमति इ० ग पु० ।
४. चू० ज७ १२ अ० ९ ३लो० ५. रोप्यद्गम इति क ख पु० ।
६. स्योष्मादि क ख पु० । ७. वन्धाक्तवि " इति ग पु० ।